भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 811 to 820 of 1087 verses
अत्र बहवः पुत्रा एष्टव्या इति वाक्यार्थोऽभिधीयमानः पुत्रैः पितृप्रीतये प्रयागगमनादयः कर्तव्या इति प्रत्याययन् पितृणां कामपूरणं परमपुरुषार्थ इति ध्वनति। स च पितृव्यपदेशपरतया प्रवृत्तः पुत्रोद्देशरूपेण तत्प्रवृत्तिषु प्रतिशब्दायमानः पृथगिवोपलभ्यत इति प्रतिशब्दध्वनिः। एवम्— (गासा. ८८६ वे.)

कस्स व ण होइ रोसो दठ्‌ठूए पिआए सव्वणं अहरं।

सभमरकमलपउमग्घाइरि वारिअवामे सहसु एण्हिं॥ १८४॥

(कस्य वा न भवति रोषः दृष्ट्वा प्रियायाः सव्रणमधरम्।

सभ्रमरकमलपद्मघ्रायिणि वारितवामे ! सहस्वेदानीम्॥)

अत्र सख्युपालम्भार्थोऽभिधीयमानः पत्युरीर्ष्योपशान्तये भ्रमरेणास्या अधरः खण्डितो नोपपतिनेति प्रत्याययन् स्खलितगोपनेषु सखीवैदग्ध्यं ध्वनति। स चान्योपदेशपरत्वेन प्रवृत्तोऽन्यस्य चेतसि प्रतिफलति इति प्रतिशब्दध्वनिः। एवं 'भम धम्मिअ वीसद्धो' इत्यादिवाक्ये विधौ निषेधः प्रतीयमानः तस्या नदीकुञ्जके केनचित् सह सङ्केतार्थं ध्वनति। स वाक्यार्थात् पृथगिवोपलभ्यमानः प्रतिशब्दध्वनिः। 'आसाइअं अण्णाएण जत्तिअम्' इत्यादिवाक्ये वृषनिवारणपरो निषेध उपपतिनिवारणं प्रत्याययन् प्रयोक्तुर्वैदग्ध्यं ध्वनति। स चान्याभिधानेनान्यमभिदधत् ततः पृथगिवोपलभ्यमानः प्रतिशब्दध्वनिः। एवं 'गोलाणइए कच्छे चक्खन्तो राइआइ पत्ताइ' इत्यपि प्रतिशब्दध्वनिरिति।

(२. शब्दध्वनिः)

एवं शब्दध्वनिरपि द्विधैव। तत्र—

अनुनादरूपो यथा— (सूर्यश. २)

भक्तिप्रह्वाय दातुं मुकुलपुटकुटीकोटरक्रोडलीनां लक्ष्मीनाक्रष्टुकामा इव कमलवनोद्‍घाटनं कुर्वते ये।

Showing 811 to 820 of 1087 verses