अत्र बहवः पुत्रा एष्टव्या इति वाक्यार्थोऽभिधीयमानः पुत्रैः पितृप्रीतये प्रयागगमनादयः कर्तव्या इति प्रत्याययन् पितृणां कामपूरणं परमपुरुषार्थ इति ध्वनति। स च पितृव्यपदेशपरतया प्रवृत्तः पुत्रोद्देशरूपेण तत्प्रवृत्तिषु प्रतिशब्दायमानः पृथगिवोपलभ्यत इति प्रतिशब्दध्वनिः। एवम्— (गासा. ८८६ वे.)
कस्स व ण होइ रोसो दठ्ठूए पिआए सव्वणं अहरं।
सभमरकमलपउमग्घाइरि वारिअवामे सहसु एण्हिं॥ १८४॥
(कस्य वा न भवति रोषः दृष्ट्वा प्रियायाः सव्रणमधरम्।
सभ्रमरकमलपद्मघ्रायिणि वारितवामे ! सहस्वेदानीम्॥)
अत्र सख्युपालम्भार्थोऽभिधीयमानः पत्युरीर्ष्योपशान्तये भ्रमरेणास्या अधरः खण्डितो नोपपतिनेति प्रत्याययन् स्खलितगोपनेषु सखीवैदग्ध्यं ध्वनति। स चान्योपदेशपरत्वेन प्रवृत्तोऽन्यस्य चेतसि प्रतिफलति इति प्रतिशब्दध्वनिः। एवं 'भम धम्मिअ वीसद्धो' इत्यादिवाक्ये विधौ निषेधः प्रतीयमानः तस्या नदीकुञ्जके केनचित् सह सङ्केतार्थं ध्वनति। स वाक्यार्थात् पृथगिवोपलभ्यमानः प्रतिशब्दध्वनिः। 'आसाइअं अण्णाएण जत्तिअम्' इत्यादिवाक्ये वृषनिवारणपरो निषेध उपपतिनिवारणं प्रत्याययन् प्रयोक्तुर्वैदग्ध्यं ध्वनति। स चान्याभिधानेनान्यमभिदधत् ततः पृथगिवोपलभ्यमानः प्रतिशब्दध्वनिः। एवं 'गोलाणइए कच्छे चक्खन्तो राइआइ पत्ताइ' इत्यपि प्रतिशब्दध्वनिरिति।
एवं शब्दध्वनिरपि द्विधैव। तत्र—
अनुनादरूपो यथा— (सूर्यश. २)
भक्तिप्रह्वाय दातुं मुकुलपुटकुटीकोटरक्रोडलीनां लक्ष्मीनाक्रष्टुकामा इव कमलवनोद्घाटनं कुर्वते ये।