मीलच्चक्षुर्विजिह्मं श्रुतिजडरसनं निघ्नितघ्राणवृत्ति स्वव्यापाराक्षमत्वक्परिमुषितमनः श्वासमात्रावशेषम्।
विस्रस्ताङ्ग पतित्वा स्वयमपहरतादश्रियं वोऽर्कजन्मा कालव्यालावलीढं जगदगद इवोत्थापयन् प्राक्प्रतापः॥
अत्रार्कजन्मा प्राक्प्रतापः कालव्यालावलीढं जगदुत्थापयन् अश्रियं वोऽपहरतादिति वाक्यार्थः। अर्कशब्दशक्तिस्वाभाव्यात् तुल्यकर्मक्रियापदादियोगाच्च अर्कवृक्षजन्मा अगदः कालव्यालदष्टमप्युत्थापयतीति प्रत्याययन्नर्को विषघ्नानां श्रेष्ठ इति प्रतिशब्दरूपं ध्वनिमुत्थापयतीति। एवमन्येऽपि महाकविप्रयोगेषु ध्वनिविशेषा गवेषणीया इति। यदुक्तं 'तात्पर्यमेव वचसि ध्वनिरेव काव्ये'१ इत्यादि।
कः पुनः काव्यवचसोर्ध्वनितात्पर्ययोः विशेषः ? ननूक्तं पुरस्तात्२—
१. ग्रन्थारम्भे ५ श्लोके। २. अत्रैव ६ प्रकाशान्ते।
यदवक्रं वचश्शास्त्रे लोके च वच एव तत्।
वक्रं यदर्थवादादौ तस्य काव्यमिति स्मृतिः॥ १८९॥
यदभिप्रायसर्वस्वं वक्तुर्वाक्यात् प्रतीयते।
तात्पर्यमर्थधर्मस्तच्छब्दधर्मः पुनर्ध्वनिः॥ १९०॥