भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 851 to 860 of 1087 verses
ननूक्तमप्रतिपन्नानुरोधादिति।

अन्यदप्युच्यते; 'न तथा पदार्थाः प्रत्यक्षेण प्रतीयमानाः स्वदन्ते यथा वाग्ग्मिनां वचोभिरावेद्यमाना' इत्यागमस्य प्रथममुपन्यासेन सूचयति।

न च सर्वथा साङ्ख्यदर्शनाश्रयिणो वयमिति प्रमाणव्युत्क्रमेण प्रतिपादयति, साहित्यस्य सर्वपार्षदत्वात्।

अथात्मनि प्रतिबिम्बद्वारेणावस्थितस्याहङ्कारगुणविशेषस्य धर्मार्थफलभूत— तृतीयपुरुषार्थजीवितस्य १ शृङ्गारस्याभिमानापरनाम्‍नो यान्याविर्भावकारणानि यानि च तत्कार्याणि तान्यनन्तरश्लोकेन निर्दिशति— 'सत्त्वात्मनाममलजन्म/ २धर्मविशेषजन्मा' इत्यादि। तत्रायमात्मनामनुपहतेभ्यः सुकृतविशेषेभ्य उत्पद्यते। उत्पन्नस्य३ सर्वस्यात्मा आत्मगुणसम्पदो ४वक्ष्यमाणलक्षणाया उदयहेतुर्भवति। अनेकजन्मानुभवजनितात्तु संस्कारादुत्कृष्यते। उत्कृष्टश्चात्मगुणसम्पद एव अतिशयहेतुर्भवति। स चायमेक एवैवंविधोऽभिमानात्मा प्रकृतिविकार आत्मविशेषाणां तमोनिर्भेदस्थानेषु प्रतिबिम्बरूपेण सुप्‍त इव प्रतिबुध्यत इति वाक्यार्थोऽभिधीयमानः। एकहेतुरित्यनेन च हेत्वन्तराभावमात्मगुणसम्पदः प्रदर्शयन् अयमेव चतुर्वर्गकारणमिति ज्ञापयति। 'जागर्ति' इति; जागर्तिश्च सुप्‍तप्रबोधदृष्टान्तेन तस्यानाविर्भावावस्थायामपि स्तिमितरूपेणावस्थानादविद्यमानतां निराकरोति। 'कोऽपि' इत्यनेनादभुतप्रदर्शनद्वारेण तदुत्कर्षसम्पत् जन्मसहस्त्रेणाप्यनाख्येया इति ख्यापयति। 'मानमय' इत्यनेन चास्याभिमानात्मनोऽभिमान एव मूलमित्यन्यावष्टम्भं निराचष्ट इति। सोऽयमेवंप्रकारो वाक्यार्थः प्रतीयमानः, एवंविधं वस्तु वयं च वक्तुमुद्यताः, अतश्चतुर्वर्गार्थिनोऽत्र प्रवर्तन्तामिति श्रोतृजनप्रोत्साहनादस्मिन्वचसि तात्पर्यमिति।

१. तृतीयः पुरुषार्थः कामः। तथा च कालिदासः 'धर्मार्थकाममोक्षाणामवतार इवाङ्गभाक्' रघु. १०.८४। २. '॰ममलधर्मवि॰' इति तु प्राक्‍तनः पाठः। तथा हि मङ्गले पृ॰ ३। जन्मेत्येव पाठे तु रघुवंशाद्यभिमता जन्मशुद्धिः स्मरणीया 'सोऽहमाजन्मे'—ति १.५। ३. उत्पन्नश्‍चेति तु स्यात्। ४. एकादशे प्रकाशे।

एवं लौकिकेऽपि वचस्यभिधीयमानं प्रतीयमानं तात्पर्यं च पर्यालोचनीयमिति। एतेन काव्यवचसोर्ध्वनितात्पर्ययोश्च क्‍वचित् सम्प्लवोऽपि व्याख्यातः। तद्यथा—'अच्छिन्नमेखलमलब्धदृढोपगूढम्' इत्यादि। अत्र—

१. काव्यार्थस्तावत् कान्ताविमिश्रवपुषः पुरारेर्वपुरच्छिन्नमेखलमित्यादिविशेषणयोगाद् विप्रलम्भसम्भोगयोः सख्यसम्पादकमिवेत्युत्प्रेक्ष्यमाणं रक्षत्विति वाक्यार्थो अभिधीयमानः।

'कान्ताविमिश्रवपुषः'—वपुरित्यनेन मूर्तिरेवास्य सांसारिकेषु कर्मस्वधिक्रियते, न पुनरात्मेति प्रत्याययति। मूर्तिरिति च वक्तव्ये वपुरिति पदोपादानान्न केवलं विश्वस्य रक्षणे, सृष्टिसंहारयोरप्ययमेव व्याप्रियत इति प्रतिपादयति। वपिर्हि सृष्टौ संहारे च दृश्‍यते, बीजं वपति, केशान् वपतीति।

'कृतविप्रलम्भसम्भोगसख्यमिव' इत्यनेन सहानवस्थानादिभिर्दुर्घटानप्ययं पदार्थान्मिथो घटयतीति ज्ञापयतीति।

'पुरारेः' इत्यनेन च कान्ताविमिश्रवपुरप्येवंविधेष्वरिवधादिव्यापारेषु समर्थ एवेति सत्यापयति। सोऽयमेवंप्रकारो वाक्यार्थः प्रतीयमानः। तदेवप्रकारमपारमनन्य— साधारणं च यस्यैश्वर्यमसावेव नमस्कार्यो नान्य इति तात्पर्यार्थः।

Showing 851 to 860 of 1087 verses