भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 871 to 880 of 1087 verses
अलब्धदृढोपगूढमित्यनेन मानं, न हि माने दृढोपगूढं लभ्यते;

अप्राप्‍तचुम्बनमित्यनेन प्रवासं, न हि प्रवासे चुम्बनादयः प्राप्यन्ते;

अवीक्षितवक्त्रकान्तीत्यनेन करुणं, न हि करुणे वक्त्रकान्तिर्वीक्ष्यते।

अथैतदवस्थास्वपीमान्येव पदानि।

अच्छिन्नमेखलमिति विप्रलम्भसत्तायाम्। विप्रलम्भो हि मेखलायामच्छिन्नायाम— वश्‍यमेव सम्भोगार्थिनः सम्भवति, सास्य प्रथमावस्था।

अलब्धदृढोपगूढमिति विप्रलम्भजन्मनि, विप्रलम्भवान् हि मेखला अच्छेदात् सम्भोगमलभमानः प्रेयसीं प्रार्थयते, 'अयि प्रियतमे,' यदि मे मेखलाच्छेदं न मन्यसे तदालिङ्गनमपि गाढं प्रयच्छ'; तदप्रतिपद्यमानायां च तस्यामस्य विप्रलम्भो जायते, सास्य द्वितीयावस्था। अप्राप्‍तचुम्बनमिति विप्रलम्भानुबन्धे; विप्रलब्धो हि सर्वाङ्गीणं प्रियासंश्लेषमलभमानः वक्त्रमात्रसंयोगमप्यभिलषति; तदलाभे चैनं विप्रलम्भोऽनुबन्धाति, सास्य तृतीयावस्था। अवीक्षितवक्त्रकान्तीति विप्रलम्भप्रकर्षे; अपेक्षणीयालिङ्गनाद्यनवाप्‍तौ हि कामिनः प्रियमामुखावलोकनमपि बहु मन्यन्ते। तदप्यनाप्‍नुवतामेषां विप्रलम्भः प्रकृष्यते; सास्य तुरीयावस्था।

सोऽयं चतुर्विधश्चतुरवस्थश्च विप्रलम्भश्चातुर्विध्येन चातुरवस्थ्येनपृथक्पृथग— भिधीयमानो विचित्र इत्युच्यते।

सम्भोगोऽपि चतुर्धैव— प्रथमानुरागानन्तरः, मानानन्तरः, प्रवासानन्तरः, करुणानन्तर इति। तस्यापि ता एव चतस्त्रोऽवस्थाः —'सत्ता, जन्म, अनुबन्धः, प्रकर्ष' इति। सोऽयमपि चतुर्भेदश्चतुरवस्थश्च कान्ताविमिश्रवपुष इत्यनेनापि चित्रत्वात्संक्षेपेणैवोपलक्ष्यते। तत्राप्युपसर्गस्य क्रियाविशेषणार्थवाचकत्वाद् येन येन विशेषेण प्रथमानुरागानन्तरे मानानन्तरे (प्रवासानन्तरे) करुणानन्तरे च कान्तया सह मिश्रीभावः साध्वसोत्कम्पः, सर्ष्याकषायं, सौत्सुक्यरभसं, सहर्षविस्मयं च जायते, स सर्व उद्दिष्टो भवति। सोऽयं विमिश्रपदेन सम्भोगश्चतुर्विधोऽप्याक्षिप्‍तः। कान्तापदेन पुनरस्य चतस्त्रोऽवस्था अपि। तत्र यदा कान्ताशब्दः स्त्रीपर्यायस्तदा—

नामापि स्त्रीति संह्लादि विकरोत्येव मानसम्॥ १९३॥

(कामन्दकः २.५१)

Showing 871 to 880 of 1087 verses