भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 861 to 870 of 1087 verses
एवमुत्तरश्लोकेऽपि यथाश्रुतवाक्यार्थोऽभिधीयमानः 'यत्पादपङ्कजरजः— परिमार्जितेषु' इति प्रयोजकव्यापारो(प)दर्शनाद् ध्यानेनानीय गणपतिर्मनस्यारोपणीय इत्युपदिशति।

'चेतस्सु दर्पणतलामलतां गतेषु' इत्यनेन चादर्शतलानीव भस्मना स्मृत्युपहितेनापि तत्पादरजसा मनांसि निर्मलीभवन्तीत्यभिधत्ते।

'शब्दार्थसम्पद उदारतराः स्फुरन्ति' इत्यनेन तु दर्पणतलेष्विव निर्मलेष्वमीषु विश्वे पदार्थाः स्फुरन्तीत्यावेदयति।

'विघ्‍नच्छिदेऽस्तु भगवान् स गणाधिनाथ' इत्यनेन पुनरुपन्यस्तन्या— येनाभिगामिकं गुणयोगमस्योपदर्शयन् अविघ्‍नप्रार्थनया चिकीर्षितं महान्तमारम्भ— विशेषमात्मनः प्रतिपादयति। सोऽयमेवंविधो वाक्यार्थः प्रतीयमानः। यस्य च पादपङ्कजस्मृतेरप्येतत्फलं तस्य साक्षादाराधनादेः किमुच्यत इति तात्पर्यार्थः॥

२. अथेदमेव श्लोकद्वयं शास्त्रादौ वचोरूपेण तात्पर्यपर्यन्तं व्याक्रियते। तत्राभीष्टदेवता स्तोतव्येति शिष्टाचारः। ततो हि विशिष्टदुष्टसम्पत्तेः समीहितफलावाप्‍तिर्भवति। अभीष्टदेवता च द्विविधा— 'अधिकृताऽनधिकृता' च। तत्राधिकृतानधिकृतयोरधिकृतायां प्रतिपत्तिर्गरीयसीत्यधिकृतैव स्तूयते। शास्त्रे चेह शृङ्गारोऽभिधेयः, तत्र च यथा भगवान् महेश्वरः सर्वज्ञतया सौभाग्येन दयितजानितया स्वातन्त्र्येण परमपरिपूर्णतया समर्थत्वेन चाधिक्रियते नैवमन्यस्तद्‍‌विधेयवैभवः शक्रादिः। तत्र च प्रागुक्त एव प्रतीयमानः; तात्पर्यरूपस्तु निरूप्यते। तत्र—

इह शास्त्रे शृङ्गारे वक्तव्यः। स द्विधा— सम्भोगो विप्रलम्भश्च। तत्र सम्भोगो विप्रलम्भमन्तरेण न प्रकर्षमधिरोहतीति विप्रलम्भ एव प्रथममभिधेयो भवति।

स चतुर्धा— 'प्रथमानुरागः, मानः, प्रवासः, करुण' इति। विचित्रश्चैष सम्भोगादिति विस्तरेणोच्यते।

चतस्त्रश्चास्यावस्था भवन्ति— 'सत्ता, जन्म, अनुबन्धः, प्रकर्ष' इति।

तमिमं चतुर्भेदं चतुरवस्थं विचित्रं च पूर्वार्धेन वक्ष्यमाणमुपलक्षयति।

तत्राच्छिन्नमेखलमित्यनेन प्रथमनुरागं, मेखलाच्छेदावधिर्हि प्रथमानुरागः;

Showing 861 to 870 of 1087 verses