भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 881 to 890 of 1087 verses
इति सम्भोगस्याद्यावस्था सत्तासंज्ञिका प्रतीयते। यदा तु कान्तशब्दो मनोज्ञापर्यायस्तदा

किं पुनर्दर्शनं तस्या विलासोल्लासितभ्रुवः॥ १९४॥

(कामन्दकः २.५१)

इति न्यायात् सम्भोगस्य द्वितीयावस्था जन्मसंज्ञिका प्रतीयते। यदा पुनः कान्ताशब्दो वृषस्यन्तीपर्यायस्तदा

पुनरपि सुलभं तपोऽनुरागी युवतिजनः खलु नाप्यतेऽनुरूपः। (किराता.१०.५०) इति न्यायात् सम्भोगस्य तृतीयावस्था अनुबन्धसंज्ञिका प्रतीयते। यदा तु कान्ताशब्दो वल्लभापर्यायस्तदा

यदेव रोचते मह्यं तदेव कुरुते प्रिया।

इति वेत्ति न जानाति तत् प्रियं यत् करोति सा॥ १९६॥

इति न्यायात् सम्भोगस्य तुरीयावस्था प्रकर्षसंज्ञिका प्रतीयते। सोऽयं चतुर्भेदश्चतुरवस्थश्च विप्रलम्भः, सम्भोगश्चाग्रतो विशेषेण वर्णयितुमुपक्रान्तो दिङ्‌मात्रेणात्र सूचित इति तात्पर्यम्॥

३. अथाऽधिकारि नायिकानायकविशेषाणां का वार्ता ?

'कान्ताविमिश्रवपुष' इत्यस्य तन्त्रेण व्याख्यानान्तरे तेऽपि सूचिता एव। तत्र हि भगवतो वपुर्विप्रलम्भसम्भोगयोः कृतसाहाय्यकमिव कान्ताविमिश्रवपुषः पुरुषान् स्त्रियश्च पात्विति व्याख्या भवति। विमिश्रशब्देन च संयोगिन इव वियोगिनोऽप्युच्यन्ते, व्युपसर्गस्य क्रियाविशेष इव क्रियावैपरीत्येऽपलम्भात्। तद्यथा विभक्तो विक्रीत इति। एवं च कान्ताभिर्विमिश्रवपुषः पुरुषाः कान्तैरविमिश्रवपुषो योषितः संयुक्ता वियुक्ताश्च शृङ्गाराधिकारिण उभयेऽपि नायकविशेषाः प्रतीयन्ते।

Showing 881 to 890 of 1087 verses