कीदृशस्य ? कान्ताविमिश्रवपुषः।
किंविशिष्टम् ? अच्छिन्नमेखलम्, अलब्धदृढोपगूढम्, अप्राप्तचुम्बनम्, अवीक्षितवक्त्रकान्ति।
कथम् ? उत्प्रेक्ष्यमाणम् ? कृतविप्रलम्भसम्भोगसख्यमिवेति।
अत्र चायमच्छिन्नशब्दः, बहुव्रिहिश्च समासः अध्याह्रियमाणपदद्वया द्वादशपदा नान्दी (नाशा. ५.१०४) सदाऽविश्लेषः, विशेषोक्तिगर्भ उत्प्रेक्षावाँश्चाशीरलङ्कारो मङ्गलार्थः। तेऽमी चत्वारोऽपि मङ्गलार्थाः शस्त्रादौ प्रयुक्ताः कर्तुः श्रोतुरध्येतुर— ध्यापयितुश्च मङ्गलमावहन्ति। यदाह —'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राण्यव्याहतप्रसराणि आयुष्मच्छ्रोतृकाणि च भवन्ति (मभा. १.१.१,१.३.१)।
६. ननु च नेह विश्वमपायेभ्य इति कर्मापादानपदयोः श्रवणमस्ति, तत्कथमिवेयं द्वादशपदा नान्दीति ?
उच्यते, पात्विति श्रुतिपदमेतत्; श्रुतेश्चानेकपदनिबन्धन एकशब्दविषयो विध्यादिरर्थः; स चान्यथानुपपद्यमानः स्वसिद्धये कर्मकरणकर्त्रधिकरणादिकं यदाक्षिपति स सर्वः श्रुतिपदार्थो भवति। तत्रोपादीयमानमपि कर्तृकर्मादिकं नियमाय, अनुपादाय वा विज्ञायते। तद्यथा — सामान्याक्षेपे विशेषपदमुपादीयमानं नियमाय भवति, 'पातु वः परमं ज्योतिः' इति। विशेषाक्षेपे तत्र तदनुपादाय विज्ञायते देवो जलं वर्षतीति। (इह तु) यथा 'अष्टवर्षं ब्राह्मणमुपनयीत, तमध्यापयेत्' इति वचनात् 'स्वाध्यायोऽध्येतव्य' इत्यत्र द्विजेनाचार्यादित्यनुपात्तमप्यवश्यमेव सन्निधीयते, तथेहाप्यपायनिर्हरणरूप— त्वात् पात्वर्थस्य स्थितेरीश्वरकर्तृकस्य सृष्टिसंहारयोरिव विश्वविषयत्वादपायेभ्यो विश्वमिति पदद्वयमनुपादीयमानमपि नियमेन सन्निधीयते।
७. ननु चाशरीरिणो महेश्वरस्य विश्वोत्पत्तिस्थितिप्रलयकारणत्वाभ्युपगमेऽपि कथमिवोच्येत वपुः पात्विति।