अशरीरिणोऽपि वैश्वरूप्येण तदुपपत्तेः। स ह्येवं तत्त्वविद्भिः स्तूयते—
मूलजालमधिभोक्तृचेतना शक्तयस्त्वदधिभो(यो)क्तृसंहतिः।
ज्ञानमेतदधिनायकव्रजंस्त्वत्स्मृतौ युगपदेव भासते॥ १९८॥
अत एव कान्ताविमिश्रवपुष इति पुरारेर्विशेषणं तन्त्रेणान्यथा व्याचक्षते। तद्यथा— कं पानीयम् अन्तेऽस्या इति कान्ता पृथ्वी, कं सुखमन्तेष्वासामिति कान्ता आपः। को वायुरन्तेऽस्येति कान्तो वह्नि। कं तोयमन्ततीति कान्तो वायुः। कं ब्रह्म अन्तोऽस्येति कान्तमाकाशम्, कान्तिर्दीप्तिस्तदतिशयवान् कान्तः सूर्यः, कान्तिः कामनीयकं तदतिशयवान् कान्तश्चन्द्रमाः, कान्तिर्वाल्लभ्यं तदतिशयवान् कान्त आत्मेति कान्तशब्देनाष्टापि भगवतो मूर्तय उच्यन्ते। ता अवन्तीत्येवंशीला भवोग्रभीमादयो मूर्तिपतयः कान्ताविनः। मिश्रशब्दः पूजावचनः। तेनैषां 'प्रशंसावचनैश्च' (२.१.६६) इत्यार्यमिश्रादिवत् समासः। ततः कान्ताविमिश्रं वपुर्यस्येति बहुव्रीहौ वैश्वरूप्यसिद्धेर्विवक्षितार्थसिद्धिः।
अथात्राच्छिन्नमेखलमित्यादीनां कथमन्वयः ?
तान्यपि वपुषो विशेषणानि भवन्ति। तत्राच्छिन्नमेखलमित्यनेन परमुच्यते। मेखला हि जघनपरिक्षेपसूत्रम्, तदपरिच्छिन्नं यस्येति। अलब्धदृढोपगूढमित्यनेनागाधत्व— दुरवगाहत्वमाख्यायते; दृंहतीति दृढ आधारः, तस्योपगूढमुपश्लेषः प्रतिष्ठास्थानं, तदनुपलब्धं यस्येति। अप्राप्तचुम्बनमित्यनेनोच्चैष्ट्वस्य निरवधित्वं कथ्यते, चुम्बनं हि वक्त्रसंयोगः तदप्राप्तं यस्येति। अवीक्षितवक्त्रकान्तीत्यनेनाप्रतिलघोरस्य परिसूक्ष्मत्वमाभिधत्ते। 'वक्त्रा' कुतस्त्या कुतोमुखी वेत्यविज्ञायमाना कान्तिर्यस्येति, कृतविप्रलम्भसम्भोग— सख्यमिवेत्यनेन त्वविज्ञातपरमार्थत्वेन विप्रलभमानमिव पृथिव्यादिप्रसिद्धरूपतया सम्भुज्यमानं सम्भुञ्जानमिव च तदेवोच्यते। यदित्थमेनमाहुः— (कुसं. २.१५)
त्वमेव हव्यं होता च भोज्यं भोक्ता च शाश्वतम्।
वेद्यं वेदयिता चासि ध्याता ध्येयं च तत्परम्॥ १९९॥
विदितं वो यथा स्वार्था न मे काश्चित् प्रवृत्तयः।