१. शिवोऽप्याहेत्यर्थः। मे मम शिवस्य।
नास्य वाक्यस्य यः कश्चिद् वक्ता; किं तर्हि ? पूर्वज्ञैः क्रमागतविश्वपालने नियुक्तो महामाहेश्वरः कोऽपि पुंविशेषः। स च 'ग्रन्थविरचनाव्यग्रे मयि मा भुद्वर्णाश्रमाचारस्थितेः व्याकोप' इति महेश्वरमेव तत्समर्थं प्रार्थयते। अतोऽत्र विश्वस्यैव कर्मत्वमवगम्यते। रक्षितो राजा राज्यं रक्षतीति च न्यायादात्मन्यपि रक्षणीयताशीर्भवति। अत्र चाशीरेषणा; तिस्त्रश्चैषणा भवन्ति, प्राणैषणा वित्तैषणा परलोकैषणा च। राज्ञो या ह्येव प्राणैषणा सा वित्तैषणा सैव परलोकैषणेति भवति। तस्य (स)प्रकृतिकं राज्यं शरीरं, तदेव च वित्तं, तस्य ह्यसौ स्वाम्यमनुभवति। यथोक्तदण्डकरादानादिसम्भृतं वसु यशश्च वित्तं, स एव च धर्मः, तेन ह्यसाविमममुं च लोकं जयति; तदेतत्सर्वमपायेभ्यो विश्वरक्षयो X X X तं भवति। X X X देवता स्तोतव्येति शिष्टाचारः। न चाशीस्स्तुतिः; एवमेतत्; किन्तु गुणोत्कर्षप्रकाशनेन सर्वत उपर्यारोपणं स्तुतिः; सा च यथा आशास्यमानाभिमत— फलैकहेतुताप्रकाशनेन प्रत्याय्यते, नैवं नमस्तस्मै, स जयतीत्येवमादिभिरित्यभिप्रायः॥
१०. अथाखण्डवाक्यार्थपक्षावलम्बिनो द्वितीयश्लोकस्यं व्याख्या—'स भगवान् गणाधिनाथो विघ्नच्छिदेऽस्तु यत्पादपङ्कजरजः परिमार्जितेषु दर्पणतलामलतां गतेषु शब्दार्थसम्पद उदारतराः स्फुरन्ति' इति। इहापि पङ्कजदर्पणार्थसम्पद्— भगवदादयः शब्दाः, गौणी च वृत्तिः मङ्गलार्थाः; इयमपि द्वादशपदा नान्द्येव; इहापि रूपकोपमाश्लेषसमाधिगर्भः कारणमालाङ्गवानाशीरलङ्कार इति योजनीयः।
११. ननु च सम्बन्धिनोऽध्याहारात् त्रयोदशेह पदानि ?
नैवम्, विभक्त्या क्तयादिपरिणामेन शब्दार्थसम्पत्परिस्फुरणस्यैवात्र सम्बन्धित्वात्। तथा ह्येवमियं कारणमाला समाप्यते भगवतः पादपङ्कजमार्जने, मार्जनस्य नैर्मल्ये, नैर्मल्यस्य शब्दसम्पदामर्थसम्पदां च परिस्फुरणे, तस्य च प्रबन्धविघ्नच्छेदे कारणं भवतीति। रूपकोपमाश्लेषपदानि चेह पादपङ्कजदर्पणतलामलरजांसि प्रतीयन्ते। तत्रोदारतराः शब्दार्थसम्पदः परिस्फुरन्तीति च समाधिरपि प्रकाशते। आदर्शतलेषु हि किलोदारदर्शनाः स्त्रियः स्वलङ्कृतमात्मानमवलोकयन्ति। स चान्यधर्माणामन्यत्रारोपणं समाधिरिति। एतच्च १वरवाचां सूचनापरमित्यवधार्यमाणमस्य वचसस्तात्पर्यं भवति; तदिदमुक्तं 'तात्पर्यमेव वचसि' इति।
१. वरवाचां = व(क्तुरुदा)रवाचां—राघवः।
१२. कः पुनरिह रूपकोपमयोर्विशेषः ?
उच्यते — यत्रात्यन्तसादृश्यादभेदोपचारेणेवादिशब्दविकलमुपमानपदमेवोपमेये प्रवर्तमानं गौणीं वृत्तिमनुभवत् समानाधिकरण्येन विशेषणत्वमनुभवति तद् रूपकम्, यथा मुखचन्द्रः, पादपङ्कजमिति। यत्र तु मुख्यानुभव X X X यमात्मनोपमेयस्य साम्यमभिधत्ते सोपमा, यथा चन्द्र इव मुखमादर्शतलामलं चेति॥
१३. अथ यदेषदसमाप्ति—प्रतिकृत्योर्बहुच्कल्पबादयः कनादयो (५.३.६७, ६८,९५) वा अत्यन्तसादृश्यादुपमेयवृत्तिभ्य एवोपमानशब्देभ्यः स्वार्थिका विधीयन्ते, तदा किमुपमाने प्रत्यय आहो उपमेय इति।