भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 931 to 940 of 1087 verses
१. शिवोऽप्याहेत्यर्थः। मे मम शिवस्य।

९. यदि वा

नास्य वाक्यस्य यः कश्चिद् वक्ता; किं तर्हि ? पूर्वज्ञैः क्रमागतविश्वपालने नियुक्तो महामाहेश्वरः कोऽपि पुंविशेषः। स च 'ग्रन्थविरचनाव्यग्रे मयि मा भुद्‌वर्णाश्रमाचारस्थितेः व्याकोप' इति महेश्वरमेव तत्समर्थं प्रार्थयते। अतोऽत्र विश्वस्यैव कर्मत्वमवगम्यते। रक्षितो राजा राज्यं रक्षतीति च न्यायादात्मन्यपि रक्षणीयताशीर्भवति। अत्र चाशीरेषणा; तिस्त्रश्चैषणा भवन्ति, प्राणैषणा वित्तैषणा परलोकैषणा च। राज्ञो या ह्येव प्राणैषणा सा वित्तैषणा सैव परलोकैषणेति भवति। तस्य (स)प्रकृतिकं राज्यं शरीरं, तदेव च वित्तं, तस्य ह्यसौ स्वाम्यमनुभवति। यथोक्तदण्डकरादानादिसम्भृतं वसु यशश्च वित्तं, स एव च धर्मः, तेन ह्यसाविमममुं च लोकं जयति; तदेतत्सर्वमपायेभ्यो विश्वरक्षयो X X X तं भवति। X X X देवता स्तोतव्येति शिष्टाचारः। न चाशीस्स्तुतिः; एवमेतत्; किन्तु गुणोत्कर्षप्रकाशनेन सर्वत उपर्यारोपणं स्तुतिः; सा च यथा आशास्यमानाभिमत— फलैकहेतुताप्रकाशनेन प्रत्याय्यते, नैवं नमस्तस्मै, स जयतीत्येवमादिभिरित्यभिप्रायः॥

१०. अथाखण्डवाक्यार्थपक्षावलम्बिनो द्वितीयश्लोकस्यं व्याख्या—'स भगवान् गणाधिनाथो विघ्‍नच्छिदेऽस्तु यत्पादपङ्कजरजः परिमार्जितेषु दर्पणतलामलतां गतेषु शब्दार्थसम्पद उदारतराः स्फुरन्ति' इति। इहापि पङ्कजदर्पणार्थसम्पद्— भगवदादयः शब्दाः, गौणी च वृत्तिः मङ्गलार्थाः; इयमपि द्वादशपदा नान्द्येव; इहापि रूपकोपमाश्लेषसमाधिगर्भः कारणमालाङ्गवानाशीरलङ्कार इति योजनीयः।

११. ननु च सम्बन्धिनोऽध्याहारात् त्रयोदशेह पदानि ?

नैवम्, विभक्त्या क्त‍यादिपरिणामेन शब्दार्थसम्पत्परिस्फुरणस्यैवात्र सम्बन्धित्वात्। तथा ह्येवमियं कारणमाला समाप्यते भगवतः पादपङ्कजमार्जने, मार्जनस्य नैर्मल्ये, नैर्मल्यस्य शब्दसम्पदामर्थसम्पदां च परिस्फुरणे, तस्य च प्रबन्धविघ्‍नच्छेदे कारणं भवतीति। रूपकोपमाश्लेषपदानि चेह पादपङ्कजदर्पणतलामलरजांसि प्रतीयन्ते। तत्रोदारतराः शब्दार्थसम्पदः परिस्फुरन्तीति च समाधिरपि प्रकाशते। आदर्शतलेषु हि किलोदारदर्शनाः स्त्रियः स्वलङ्कृतमात्मानमवलोकयन्ति। स चान्यधर्माणामन्यत्रारोपणं समाधिरिति। एतच्‍च १वरवाचां सूचनापरमित्यवधार्यमाणमस्य वचसस्तात्पर्यं भवति; तदिदमुक्तं 'तात्पर्यमेव वचसि' इति।

१. वरवाचां = व(क्तुरुदा)रवाचां—राघवः।

१२. कः पुनरिह रूपकोपमयोर्विशेषः ?

उच्यते — यत्रात्यन्तसादृश्‍यादभेदोपचारेणेवादिशब्दविकलमुपमानपदमेवोपमेये प्रवर्तमानं गौणीं वृत्तिमनुभवत् समानाधिकरण्येन विशेषणत्वमनुभवति तद् रूपकम्, यथा मुखचन्द्रः, पादपङ्कजमिति। यत्र तु मुख्यानुभव X X X यमात्मनोपमेयस्य साम्यमभिधत्ते सोपमा, यथा चन्द्र इव मुखमादर्शतलामलं चेति॥

१३. अथ यदेषदसमाप्‍ति—प्रतिकृत्योर्बहुच्‌कल्पबादयः कनादयो (५.३.६७, ६८,९५) वा अत्यन्तसादृश्‍यादुपमेयवृत्तिभ्य एवोपमानशब्देभ्यः स्वार्थिका विधीयन्ते, तदा किमुपमाने प्रत्यय आहो उपमेय इति।

Showing 931 to 940 of 1087 verses