यद्युपमाने, गुडकल्पा द्राक्षा, कुशाग्रीया (५.३.१०५) बुद्धिरित्युपमेयलिङ्गं न प्राप्नोति; उपमेये, बहुगुडो द्राक्षा(५.३.६८) चञ्चा च लिङ्गं न प्राप्नोति। लिङ्गमशिष्यं लोकश्रयत्वात् (मभा. २.१.३६)। स्वार्थिकाश्च क्वचित्प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते (मभा. ५.३.६८), यथा 'देव एव देवता' (५.४.२७) चत्वार एव वर्णाश्चातुर्वर्ण्यम् (५.१.१२४ वा.) इति।
आचार्यप्रवृत्तिर्ज्ञापयति यदयं 'कर्मव्यतिहारे णच् स्त्रियाम्' (३.३.४३) इति णचं विधाय तदन्तात् स्वार्थिकविधाने 'णचः स्त्रियामञ्' (५.४.१४) इति पुनः स्त्रीग्रहणं करोति। अभेदोपचारणैव च प्रतिकृतिलिङ्गवचनं X X X या X X X 'लुप् मनुष्ये' इति लुकमतिक्रम्य प्र(ति)कृतिवचनेभ्यो लुपं शास्ति।
१४. कथं पुनः 'ईषदपरिसमाप्तौ' 'इवे प्रतिकृतौ' इति इवार्थे वा विधीयमानः प्रत्यय उपमान उपमेये वा शङ्क्येत ?
ईषदपरिसमाप्ते क्रियात्वेन इवार्थस्य चासत्त्वभूतत्वेन लिङ्गवचनायोगात् प्रत्ययान्तरेषु च लिङ्गसङ्ख्यावशादीषदपरिसमाप्तौ चेवार्थे वर्तमानात् प्रातिपदिकात् स्वार्थे प्रत्ययो भवतीति विज्ञायते।
१५. ननु च गुड इवेयं गुडो द्राक्षा, चञ्चेवायं चञ्चा पुरुष इति गुडादिशब्दा माधुर्यादिगुणयोगेन द्राक्षादिषु वर्तन्ते। ततश्च द्राक्षादयः प्रकृत्यर्था भवन्ति। प्रकृत्यर्थे चोपमेये स्वार्थिकाः कल्पबादय इति कथमुपमाने प्रत्यय इति ?