भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 961 to 970 of 1087 verses
नैव द्रव्यस्य प्रकर्षः सम्भवति।

किं तर्हि ?

गुणस्य च(हि) प्रकर्षोऽस्ति, तस्य प्रकर्षो भविष्यति ?

कथं ज्ञायते गुणस्यैव प्रकर्ष इति ?

एवं हि दृश्‍यते लोके — समान आयामे विस्तारे च पटस्यान्योऽर्घो भवति काशिकस्य, अन्यो माधुरस्य। गुणान्तरं खल्वपि; शिल्पिनः प्रकर्षायोत्पादयमानस्तमेव द्रव्यान्तरेण प्रक्षालयन्ति, अन्येन शुद्धं धौतं कुर्वन्त्यन्येन शेफालिकमन्येन माध्यमिकमिति। तर्हि शुक्‍लात् कृष्णो मा भूदिति समानग्रहणं कर्तव्यम्।

न कर्तव्यम्। स्पर्धा वै प्रकर्षः, सा च सामनगुण एव भवति, न ह्याढ्याभिरूपौ स्पर्धेते।

वाचकेन खल्वप्युत्पत्तव्यम्। न च शुक्लात् कृष्णे उत्पद्यमानो वाचकः स्यात्। यत्र तत् स्यात्, तत्रोत्पद्यत एव, यथा शुक्लात् कृष्णो मासुरतर इति।

न तर्हीदानीमिदं भवति अध्वयुर्वै श्रेयान्, पापीयान् प्रतिप्रस्थाता अन्येभ्यः पापेभ्यः। काणतम इति कणिरयं सौक्ष्म्ये वर्तते; सर्व इमे काणाः किंचित् पश्‍यन्ति, अयं तु किंचिदपि न पश्‍यतीति काणतम उच्यते।

तस्याऽदूरविप्रकर्ष इति वक्तव्यम। सर्षपाद्‍‌धिमवतो महत्त्वे मा भूदिति।

न वक्तव्यम्। अदूरविप्रकर्ष एव स्पर्धा भवति। न हि निष्कधनः शतनिष्कधनेन स्पर्धते।

Showing 961 to 970 of 1087 verses