नैव द्रव्यस्य प्रकर्षः सम्भवति।
गुणस्य च(हि) प्रकर्षोऽस्ति, तस्य प्रकर्षो भविष्यति ?
कथं ज्ञायते गुणस्यैव प्रकर्ष इति ?
एवं हि दृश्यते लोके — समान आयामे विस्तारे च पटस्यान्योऽर्घो भवति काशिकस्य, अन्यो माधुरस्य। गुणान्तरं खल्वपि; शिल्पिनः प्रकर्षायोत्पादयमानस्तमेव द्रव्यान्तरेण प्रक्षालयन्ति, अन्येन शुद्धं धौतं कुर्वन्त्यन्येन शेफालिकमन्येन माध्यमिकमिति। तर्हि शुक्लात् कृष्णो मा भूदिति समानग्रहणं कर्तव्यम्।
न कर्तव्यम्। स्पर्धा वै प्रकर्षः, सा च सामनगुण एव भवति, न ह्याढ्याभिरूपौ स्पर्धेते।
वाचकेन खल्वप्युत्पत्तव्यम्। न च शुक्लात् कृष्णे उत्पद्यमानो वाचकः स्यात्। यत्र तत् स्यात्, तत्रोत्पद्यत एव, यथा शुक्लात् कृष्णो मासुरतर इति।
न तर्हीदानीमिदं भवति अध्वयुर्वै श्रेयान्, पापीयान् प्रतिप्रस्थाता अन्येभ्यः पापेभ्यः। काणतम इति कणिरयं सौक्ष्म्ये वर्तते; सर्व इमे काणाः किंचित् पश्यन्ति, अयं तु किंचिदपि न पश्यतीति काणतम उच्यते।
तस्याऽदूरविप्रकर्ष इति वक्तव्यम। सर्षपाद्धिमवतो महत्त्वे मा भूदिति।
न वक्तव्यम्। अदूरविप्रकर्ष एव स्पर्धा भवति। न हि निष्कधनः शतनिष्कधनेन स्पर्धते।