भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 981 to 990 of 1087 verses
किमुक्तम् ?

'पूर्वपदातिशय आतिशायिकाद् बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः' 'उत्तरपदातिशयं आतिशायिको बहुव्रीहेर्बह्वाढ्यतराद्यर्थः' इति॥

अथ यत्र त्रीणि शुक्लानि प्रकर्षापकर्षयुक्तानि, तत्र पूर्वं पूर्वमपेक्ष्य द्वे तरबन्ते, तत्र शुक्लतरशब्दादुत्पत्तिः प्राप्‍नोति। शुक्लशब्दादेव च इष्यते, शुक्लतरशब्दे शुक्लशब्दोऽप्यस्तीति शुक्लादेवोत्पत्तिर्भविष्यति।

नैतद् विवदामहे शुक्लतरशब्दे शुक्लशब्दोऽस्त्युत नास्ति। किं तर्हि ? शुक्लतरशब्दोऽप्यस्ति, तत उत्पत्तिः प्राप्‍नोति, तदन्ताच्‍चातिशायिको दृश्‍यते। तद्यथा—'देवो वः सविता प्रार्पयतु श्रेष्ठमाय कर्मणे', 'युधिष्ठिरः श्रेष्ठतमः कुरूणाम्' (मभा. ५.३.५५) इति।

अयं तर्हि परिहारः, मध्यमाच्छुक्लशब्दात् पूर्वपरापेक्षात् प्रत्ययेनोत्पत्तव्यम्'। मध्यमश्च शुक्लशब्दः पूर्वमपेक्ष्य प्रकृष्टः परमपेक्ष्य न्यूनः प्रकर्षाय प्रवर्तते।

न च बहूनां प्रकर्षे तरपा भवितव्यम्।

केन तर्हि ?

तमपा। श्रेष्ठतमाय, श्रेष्ठतम इति छन्दस्येव भवति। वाचकेन खलु उत्पत्तव्यम्; न च शुक्लतरशब्दादुत्पद्यमानो वाचकः स्यात्। उक्तं च (मभा. २.३.५५)—

अपेक्ष्य मध्यमः पूर्वमाधिक्यं लभते सितः।

परंतु न्यूनतामेति न च न्यूनः प्रवर्तते॥ २०३॥

Showing 981 to 990 of 1087 verses