'पूर्वपदातिशय आतिशायिकाद् बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः' 'उत्तरपदातिशयं आतिशायिको बहुव्रीहेर्बह्वाढ्यतराद्यर्थः' इति॥
अथ यत्र त्रीणि शुक्लानि प्रकर्षापकर्षयुक्तानि, तत्र पूर्वं पूर्वमपेक्ष्य द्वे तरबन्ते, तत्र शुक्लतरशब्दादुत्पत्तिः प्राप्नोति। शुक्लशब्दादेव च इष्यते, शुक्लतरशब्दे शुक्लशब्दोऽप्यस्तीति शुक्लादेवोत्पत्तिर्भविष्यति।
नैतद् विवदामहे शुक्लतरशब्दे शुक्लशब्दोऽस्त्युत नास्ति। किं तर्हि ? शुक्लतरशब्दोऽप्यस्ति, तत उत्पत्तिः प्राप्नोति, तदन्ताच्चातिशायिको दृश्यते। तद्यथा—'देवो वः सविता प्रार्पयतु श्रेष्ठमाय कर्मणे', 'युधिष्ठिरः श्रेष्ठतमः कुरूणाम्' (मभा. ५.३.५५) इति।
अयं तर्हि परिहारः, मध्यमाच्छुक्लशब्दात् पूर्वपरापेक्षात् प्रत्ययेनोत्पत्तव्यम्'। मध्यमश्च शुक्लशब्दः पूर्वमपेक्ष्य प्रकृष्टः परमपेक्ष्य न्यूनः प्रकर्षाय प्रवर्तते।
न च बहूनां प्रकर्षे तरपा भवितव्यम्।
तमपा। श्रेष्ठतमाय, श्रेष्ठतम इति छन्दस्येव भवति। वाचकेन खलु उत्पत्तव्यम्; न च शुक्लतरशब्दादुत्पद्यमानो वाचकः स्यात्। उक्तं च (मभा. २.३.५५)—
अपेक्ष्य मध्यमः पूर्वमाधिक्यं लभते सितः।
परंतु न्यूनतामेति न च न्यूनः प्रवर्तते॥ २०३॥