भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 991 to 1000 of 1087 verses
अस्तु वाऽपि तरप्‍तस्मान्नापशब्दो भविष्यति।

वाचकश्चेत् प्रयोक्तव्यो वाचकश्चेत् प्रयोज्यताम्॥ २०४॥

(मभा. ५.३.५५)

२१. अथ यद्यातिशायिका गुणप्रकर्ष एवोत्पद्यन्ते किमर्थमुच्यते 'अजादी गुणवचनादेव' (५.३.५८) इति ? एतौ गुणविशेषवचनेभ्य एव यथा स्यातामिति। गुणाः खल्विह द्विप्रकारा विप्रथन्ते तत्स्थाश्च तद्विशेषणानि च।

यदाह — तत्स्थैश्च गुणैः षष्ठी समस्यते, न तु तद्विशेषणैः (मभा.२.२.८) इति। तत्र ये भावप्रत्ययोत्पत्तिमन्तरेण द्रव्यात् पृथगाख्यातुमशक्याः स्वशब्दैर्द्रव्य— परतयैवाभिधीयन्ते ते तत्स्थाः। तद्यथा—'पटुः पुमान् मृदुः शय्या, गुरुद्रव्यम्, लघुरुपायः। एवमणुर्महान् दीर्घो ह्रस्वः, पृथुः कृशो, दृढः स्थूल' इत्यादयो वक्तव्याः।

ये तु स्वशब्दैः पृथगाख्यायमाना मतुब्लोपादिना द्रव्यं विशेषयन्ति ते तद्‌विशेषणानि। तद्यथा 'शुक्लगुणयोगाच्छुक्ला बलाका, 'कृष्णगुणयोगात् कृष्णः काकः, तीक्ष्णगुणयोगात् तीक्ष्णः कण्टकः, दक्षगुणयोद् दक्षः पुरूषः, एवं शीतोष्णस्वादुसुरभिवत्सलोत्सुकरभसमत्सरादयो वक्तव्याः। तत्र यथा 'बलकायाः शुक्लः, काकस्य कृष्णः, कण्टकस्य तीक्ष्णः, पुरुषस्य दक्ष' इत्यादौ, तथा 'बलाकायाः शौक्ल्यम्, काकस्य कार्ष्ण्यम्, कण्टकस्य तैक्ष्ण्यम्, पुरुषस्य दाक्ष्यमि'त्यादावपि समासो न भवति (मभा. २.२.८,११)। गन्धरसरूपस्पर्श— सङ्ख्यापरिमाणादयस्तु न तत्स्थाः, नापि तद्विशेषणानि। तेषां शुक्लादिसङ्घातेषु शास्त्रकारसङ्केताद् द्रव्यवचनत्वेनैव राजपुरुषादिवत् षष्ठीसमासा भवन्ति। तद्यथा — चन्दनगन्धः, चूतफलरसः, कन्यारूपं, कुचस्पर्शः, पुरुषसङ्ख्या, सेनापरिमाणमिति। यैश्च तीव्रादींस्तद्‌विशेषणत्वेनोपन्यस्य घृतस्य तीव्रश्चन्दनस्य मृदुरित्युदाहृत्य च तीव्रमृदुगुणयोगाद् गुणवृत्त्या गन्धस्पर्शविशेषणत्वेन सापेक्षत्वे सत्यसमार्थ्याल्लब्धेऽपि समासाभावे यदा प्रकरणवशात् तीव्रशब्द एव विशिष्ट— गन्धवृत्तिस्तदा तदर्थोपचित एव व्यतिरेके षष्ठीसमासप्रसङ्ग इति प्रतिषेधोपपत्तिरुक्ता, त एवं प्रष्टव्याः — कथं प्रकरणाद्यपेक्षायामपि सापेक्षत्वस्य तादवस्थ्यान्नासामर्थ्यमिति ? तदेवं तत्स्थैर्गुणैः षष्ठी समस्यते पटुत्वादिभिः, न तु तद्विशेषणैः शुक्लादिभिरिति।

किं वक्तव्यमेतत् ?

२२. न हि; कथमनुक्तं गंस्यते ? आचार्याणां च प्रवृत्तयो गमयन्ति तत्रार्थैकत्वं गोसहस्त्रम् इत्यादिषु 'अर्थैकत्वादेकं वाक्यम्', 'शतसहस्त्रान्ताच्‍च निष्कात्' (५.२.११९), 'क्रोशशतयोजनशतरुपसङ्ख्यानम्' (५.१.७४ वा.), 'तत्समुदायः खारीशतमपि न प्रसूत' (समर्थ ?) मित्यादिजैमिन्यादिमुनिचतुष्टयवचनात् सङ्ख्यया परिमाणेन च समासो न निषिध्यते 'वर्तमानसामीप्ये वर्तमानवद् वा (३.३.१३१), 'अपरस्पराः क्रियासातत्ये' (६.१.११४), 'उत्तरपदार्थप्राधान्ये' (२.२.६ मभा.), 'तद् यत्‍नगौरवं प्रसज्येत' (शाबरभाष्यम् १.१.१) इति सूत्रकारभाष्यकारप्रयोगाच्‍च कुसुमसौकुमार्यादिशब्दसिद्धिः। तेनावगम्यते तत्स्थैर्गुणैरेवंप्रकारैः षष्ठी समस्यत इति।

नन्वेवमपि

'द्विरदमदजलासारसौरभ्यगर्भः',॥ २०५॥

Showing 991 to 1000 of 1087 verses