'कुचकलशमहोष्माबद्धरेखस्तुषारः',॥ २०६॥
'तुहिनगिरिशिलाशैत्यसङ्क्रान्तिमन्ति'॥ २०७॥
इत्येवमादीनामनुपपत्तिः, सप्तमीसमासा इमे भविष्यन्ति।
२३. कथं पुनः सौरभ्यादीनामाधारतः पृथगुपलम्भे सप्तमी भवति ?
उच्यते, समस्तमूर्तिमद्द्रव्याणां पाञ्चभौतिकत्वे वायुना विभक्तावयवा आप्यपार्थिवादिद्रव्यसूक्ष्मभागा यत्रयत्र सञ्चार्यन्ते तत्रतत्रैतेषु घ्राणादिसम्बन्धनिबन्ध— नाद्युपलब्धिरित्यधिकरणविभक्तेर्नानुपपत्तिः। एवमपि भागानामेवाधिकरणत्वं, न भागवताम्; न हि निकृत्तस्य हस्तपादादेः पुरुषादिव्यपदेशो भवति।
एवमेतत्; किन्तु पृथक्स्थितानामप्यवयवानामवयविव्यपदेशो दृश्यते, तद्यथा 'राहोः शिरो राहुः, शिवस्य लिङ्गं शिव' इति।
न चैतद् वाच्यम्; एवं सति समुद्गकादिस्थस्य कर्पूरादेर्बहिरुपलभ्य— मानबहुलपरिमलस्य कालान्तरेणोपेक्षयः स्यात्; तद्वदेव दृष्टसन्निधेस्तत्रान्यभागाना— मुपनिपातात्; अत एव पुराणद्रव्याणां गन्धरसरूपस्पर्शगौरवप्रभावविपाकवीर्यविपर्यया युज्यन्त' इति।
तदेवं यैः सह षष्ठीसमास इष्यते तेभ्य एवेयसुन्—इष्ठनोः विधानमिति नानर्थकं गुणवचनादेवेति।
ननु च गुणमुक्तवान् मतुबुत्पत्तेः पूर्वमिति गुणवचनः शुक्लादिर्गुणं वक्ष्यति भावप्रत्ययोत्पत्त्येति गुणवचनः पट्वादिः। विशेषवचनत्वाविशेषे यावदजादी पट्वादिभ्य उत्पद्येते तावच्छुक्लादिभ्यः किमिति नोत्पद्येयाताम्। न च समास— विधाविवेह ज्ञापनादीनि सन्ति। कथं न सन्ति ? तद्यथा — 'प्रशस्यस्य श्रः' (५.३.६०), 'ज्य च' (५.३.६१), 'वृद्धस्य च' (५.३.६२), 'अन्तिकबाढयो— र्नेदसाधौ'(५.३.६३), 'युवाल्पयोः कनन्यतरस्याम्' (५.३.६४) इति। अपि च 'इष्ठेमेयस्सु' (६.४.१५४) इत्यधिकृत्य यदयं स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादि परं लुप्यते पूर्वस्य च गुणो भवतीत्यभिधत्ते, प्रियस्थिरस्फिरोरुबहुलगुरु— वृद्धतृप्रदीर्घबृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रप्द्राघिवृन्दाः इत्याह। 'बहोर्लोपो भू च बहोः' (६.४.१५८) इति ब्रूते। 'र ऋतो हलादेर्लघोः' (६.४.१६८) इत्यत्र पृथुमृदुदृढकृशभृशपरिवृढानामिति परिगणनं करोति। तद्ज्ञापयति तत्स्थगुणवचनेभ्य एवेयसुनिष्ठनौ भवत इति। ततश्च यथा 'शुक्लतरः कृष्णतम' इत्यादि भवति, नैवं शुक्लीयान् कृष्णिष्ठ इत्यादि। यथा च मृदिष्ठः पटीयानिति भवति, नैवं कारकिष्ठः पाचकीयानिति।
२४. कथं तर्हि ओजिष्ठः पापीयानिति ?