'विन्मतोर्लुक्' (५.३.६५) इति ज्ञापकेन तदन्ताद् भविष्यति।
अथ यथा चन्द्रकल्पं मुखं, गुडकल्पा द्राक्षा, तथा चन्द्रतमं गुडतमेति कस्मान्न भवति ?
प्रकर्षाभावात्। न हि केनचिद्गुणेनोपमेयवृत्तीनामुपमानशब्दानामतज्जातीयेषु वर्तमानानां स्वार्थापेक्षया प्रकर्षः सम्भवति। यत्र तु तज्जातीयेषु गुणाभिधानं तत्र भवत्येवातिशायितम्। तद्यथा— गौरयं यः शकटं वहति, गोतरोऽयं यः शकटं सीरं च; गौरियं या समां समां विजायते, गोतरेयं या समांसमीना जीववत्सा च। दृश्यते हि जातिवाचिनस्तज्जातीयेष्वपि गुणाभिधायित्वम्।
'सङ्ग्रामेषु चरत्येष पुरुषः पुरुषो यथा'॥ २०८॥
'नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान्पुमान्'॥ २०९॥
यद्येवं चन्द्रगुडादिभ्यः कल्पबादयोऽपि न स्युः ?
नैवम्; तेषामीषदसमाप्तावेव विधानात्।
तर्हि कृतकल्पं भुक्तकल्पमिति क्तान्तेभ्यः न चास्ति सम्भवो यद्भूतं च स्यादसमाप्तं च ;
'आशंसायां भूतवच्च' (३.३.१३२) इति वचनाद् भविष्यति॥