शाखादिमत्त्वं हीयते, सटादिमत्त्वमुपजायते, एकत्वमन्वयीति।
वृक्षावित्युक्ते सकारो हीयते, औकार उपजायते, वृक्षशब्दोऽन्वयी।
अर्थेऽप्येकत्वं हीयते, द्वित्वमुपजायते, शाखादिमत्त्वमन्वयीति।
तिङन्तेषु खल्वपि पचतीत्युक्ते कश्चिच्छब्दः श्रूयते, पच इति चकारान्तः, अतिशब्दः प्रत्ययः, अर्थोऽपि कश्चिद् गम्यते विक्लित्तिः कर्तृत्वं च।
पठतीत्युक्ते कश्चिच्छब्दो हीयते, कश्चिदुपजायते, कश्चिदन्वयीति।
पच्छब्दो हीयते, पठशब्द उपजायते, अतिशब्दोऽन्वयी।
अर्थोऽपि कश्चिद्धीयते कश्चिदुपजायते, कश्चिदन्वयी; विक्लित्तिर्हीयते, पठिक्रियोपजायते, कर्तृत्वमन्वयी।
पच्यत इत्युक्ते अतिशब्दो हीयते, यतेशब्द उपजायते, पच्छब्दोऽन्वयी;
अर्थोऽपि कर्तृत्वं हीयते, कर्मत्वमुपजायते, विक्लित्तिरन्वयिनीति।
ते मन्यामहे यश्शब्दो हीयते तस्यासावर्थो योऽर्थो हीयते; यश्शब्द उपजायते तस्यासावर्थो योऽर्थ उपजायते; यश्शब्दोऽन्वयी तस्यासावर्थे योऽर्थोऽन्वयीति।