एवं वाक्येऽपि गामानयेत्युक्ते कश्चिच्छब्दः श्रूयते, गामिति द्वितीयान्तः आनयेति च लोडन्तः;
अर्थोऽपि कश्चिद् गम्यते सास्नादिमान् कर्मत्वमापन्नः आनयेति क्रियार्थत्वविधि— त्वमापन्नः अथाश्वमानयेत्युक्ते गवार्थो हीयते, अश्वार्थ उपजायते, आनयनार्थोऽन्वय।
गां बधानेत्युक्ते आनयनार्थो हीयते, बन्धार्थ उपजायते, गवार्थोऽन्वयी।
एवं गौरानीयतामश्व आनीयतां गौर्बध्यतामश्वो बध्यतामित्यादिषु कर्मकर्तृत्वयोर्हानिरुपजनिश्चाभ्यूह्यः। एतेन प्रबन्धोऽपि व्याख्यातः।
कश्चिदाह, मारीचो रामेण हतः, कश्चिदाह लक्ष्मणेनेति। तत्र मारीचमृगघाते रामो हीयते लक्ष्मण उपजायते, लक्ष्मणो वा हीयते राम उपजायते, रामायणं पुनरन्वयीति।
ननु च वृक्षऋक्ष इति वकारो हीयते (ऋकार) उपजायते वा; पचति पठतीति चकारो हीयते ठकार उपजायत इति वक्तव्ये किमर्थमुच्यते वृक्षशब्दो हीयते ऋक्षशब्द उपजायते, पच्छब्दो हीयते पठशब्द उपजायत इति ? शब्दस्यार्थवत्ता यथा स्यात्, न वर्णानाम्; किं पुनर्न वर्णाः शब्दः? बाढम्; अर्थावसायप्रसवनिमित्तं शब्द इत्यभिहितं पुरस्तात्।
नन्वेवमपि वृक्षादीनामर्थवत्ता नोपपद्यते; किं कारणम्? केवलेनावचनात्।
न हि वृक्षादिना केवलेन कश्चिदर्थो गम्यते; किं तर्हि? सप्रत्ययकेन।
किमुक्तं भवति? पचत्यादिष्वर्थवत्तासहचरिता केवलवचनता दृष्टा; वर्णेषु चानर्थक्यसहचरितं केवलावचनत्वम्। न चैते पचत्यादिवद्दृश्यन्ते, वर्णवत्तु दृश्यन्ते तस्माद् वर्णवद्वृक्षादीनामर्थवत्ता नोपपद्यत इति।
सप्रत्ययस्योपपद्यत इति चेन्वैवम्। इह यद् यस्य निमित्तत्वेनोपादीयते सति तस्मिस्तेन प्रवर्तितव्यम्। अर्थवत्ता च प्रातिपादिकसंज्ञाया निमित्तम्। सा च द्विधा लौकिकी पारिभाषिकीति च। तयोर्लोके विदिता लौकिकी, क्रियाप्रधानमाख्यातम्, सत्त्वप्रधानानि नामानि इति। शास्त्रे व्यवहारार्था पारिभाषिकी 'दाधा घ्वदाप्' (१.१.२०), 'तरप्तमपौ घः' (१.१.१२) इति। तत्र लौकिकी तावदर्थोपलब्धिगमया; येषां च प्रातिपदिकसंज्ञा विधीयते ते न कदाचित् केवला उपलभ्यन्ते। पारिभाषिकी तु परिभाषया भवत्यर्थवच्छब्दरूपं, तच्च प्रातिपदिकसंज्ञमिति। एवं च शब्दत्वाविशेषाद्वर्णानामपि प्रसज्यते।