भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1061 to 1070 of 1087 verses
ननु च 'कृत्तद्धितसमासाश्च' (१.२.४६) इति समासग्रहणं नियमार्थम्, तेन चार्थवत्समुदायस्य वाक्यस्येव वर्णसमुदायस्यापि प्रातिपदिकसंज्ञा निवार्यत इति कथं तदन्तर्गता विभक्तयो लुप्यन्ते?

नैवम्; नियमस्य तुल्यजातीयापेक्षत्वात् समासस्येव भिन्नार्थसमुदायस्य वाक्यस्यैव प्रातिपदिकसंज्ञा निवर्तते, त्वभिन्नार्थस्य वर्णसमुदायस्येति। अत्र हि येनैवार्थेन समुदायस्यार्थवत्त्वं तेनैव तदवयवानामपीति (१.२.४५)।

एवं तर्हि निवृत्तायामपि विभक्तौ पदत्वाद् घनं वनमित्यादौ नलोपादीनि (८.२.७) प्राप्नुवन्ति।

तर्हि 'सङ्घातस्यैकार्थ्यात् सुबभावो वर्णात्' भविष्यति। वृक्ष इत्यत्र ह्येकत्वं विभक्त्या द्योत्यते, तच्चैकमित्येकैव विभक्तिरुत्पद्यते, यथा बहवो द्रष्टार एकेनैव प्रदीपेन दृश्‍यमर्थं पश्यनित, एवं स च समुदायादेव तन्त्रेण सर्वानुग्राहिण्युत्पद्यते समुदायद्विर्वचनवत्। यथा हि पपाचेत्यादौ प्रथमस्यैकाचो द्विर्वचनप्रसङ्गे येनैवाचा समुदाय एकाच्, नेव तदवययोऽपि पशब्दश्चेति तत्र पृथगवयवैकाचो न द्विरुच्यन्ते; किं तर्हि? सर्वानुग्रहात् समुदायैकाच एव। तथैहापि समुदायादुत्पत्तौ वर्णात् सुबुत्पत्तिर्न भविष्यतीति तदभावान्न पदसंज्ञा। अपदत्वाच्च नलोपादीनामप्रसङ्ग इति।

सत्यमेतत्। किंतु वर्णेष्वन्वयव्यतिरेकयोः सद्भावेऽप्यर्थान्वयव्यतिरेका— भावादयमस्यार्थ इति प्रविभागो न प्रकल्पते। तथा हि वृक्षः ऋक्षः, पचति पठतीत्यादौ यस्य हानौ यो हीयते, यस्योपजने य उपजायते, यस्यान्वये योऽनुगच्छति स तस्यार्थ इति शक्यते वक्तुम्।

नैवम्, कूपयूपसूपादाविति अनर्थका वर्णाः, अर्थवन्तो वृक्षादय इति।

ननु यत्र बृंहितं हीयते, होषितमुपजायते, रेणुचक्रमन्वयि, तत्र हस्तिनो हीयन्ते, अश्वा उपजायन्ते, पिपीलिका अन्वयिन्यो, न चैतावता रेणुचक्रस्य निमित्तं भवन्ति। यत्र वा क्षीरं हीयते दध्युपजायते पात्रमन्वयि, तत्र माधुर्यं हीयते अम्लतोपजायते तृप्‍तिरन्वयिनी, न चान्वयि पात्रं तृप्‍तिहेतुर्भवति। तदेवमन्वयव्यतिरेके च सत्यपि कार्यकारणभावस्याभावात् कथमुच्यतेऽन्वयव्यतिरेकाभ्यामर्थवत्तावतिष्ठत इति ?

नैवम्। अवधारितं हि सामर्थ्यमन्वयव्यतिरेकाभ्यां प्रविभज्यते, न च पिपीलिकानां पात्रस्य वा रेणुचक्रतृप्‍त्योः सामर्थ्यावधारणमस्ति, तत्सद्‪भावे—ऽप्यन्यत्राभावात्। यत्रैव चान्वयव्यतिरेकाभ्यामर्थवत्ता शक्यते प्रत्यापत्तुं तत्रैव प्रतिपत्तव्या, न सर्वत्र। यद्येवं प्रकृत्यादिष्वपि न शक्यते। बहवो हि शब्दा एकार्था भवन्ति, एकश्च शब्दो बह्वर्थः; यदि हि नियोगत एकः शब्द एकस्मिन्नर्थे वर्तते तत एष प्रविभागः स्यात्। यतस्तु व्यभिचरत्येतत् अनेकश्शब्द एकस्मिन्नर्थे, तद्यथा इन्द्रः पुरन्दर इति, एकश्चानेकार्थः अक्षाः पादाः माषाः इति। अनुमानं चैकस्यैवाकार्थवृत्तित्व एव शक्यते कल्पयितुम्; अतो व्यभिचारादनिमित्त— मन्वयव्यतिरेकौ प्रकृतिप्रत्ययार्थप्रविभागे इति प्रकृतिरेव सर्वार्था स्यात्। प्रत्ययो वा सर्वार्थः, उभौ वोभयार्थौ ? यथैकौ दृश्‍यते हि दधि मध वग्निचिदिति प्रकृतिरेव सर्वानर्थानभिदधाना, 'अधुना' (५.३.१७), इयान् 'अस्यापत्यं इः' इति, प्रत्यय एव वा सर्वार्थाभिधायी, हैयङ्गवीनं (५.२.२३), श्रोत्रियः (५.२.८४), क्षेत्रियः इत्युभयमुभयार्थाभिधायीति। अतः किं न साधीयः, अर्थवत्ता सिद्धा भवति। यदा हि प्रकृतिरेव स्वार्थादिषु वर्तते प्रत्ययो वा, तदा सुतरामर्थवत्ता सिध्यति। न ब्रूमोऽर्थवत्ता न सिध्यति। तौ त्वन्वयव्यतिरेकौ नावतिष्ठेते। ततश्च कुत एतत् यादयं प्रकृत्यर्थोऽयं प्रत्ययार्थ इति ? न पुनः प्रकृतेरेवोभावर्थौ प्रत्ययस्योभयस्य वेति सामान्यशब्दा एते एवं स्युः; सामान्यशब्दाश्च नान्तरेण विशेषं प्रकरणं वा विशेषेऽवतिष्ठन्ते, यतस्तु खलु नियोगतः प्रकरणादिमन्तरेणापि वृक्ष इत्युक्ते स्वभावतः कश्चिदर्थो गम्यते, अतो मन्यामहे न इमे सामान्यशब्दाः, प्रकृतिः प्रकृत्यर्थे वर्तते, प्रत्ययः प्रत्ययार्थे वर्तत इति। यदि हि 'सु औ जस्' (४.१.२) इत्येत एव स्वार्थद्रव्यलिङ्गसङ्ख्याकर्मादिवचनाः, सहायमात्रं प्रकृतिः, स्वादिभिः सर्वेषामर्थाना— मुपादानात्, वृक्षः वृक्षौ वृक्षा इति। किमर्थं नियोगेन वृक्षार्थ एव गम्यते, न पुनस्सर्वे अर्थाः प्रतीयेरन्, पर्यायेण वा कदाचित् कश्चिद्? न यौगपद्यं न पर्यायः; तस्मादन्वयव्यतिरेकाभ्यां समुदायस्थाः शब्दाश्चापोद्धर्तव्या अर्थाश्चेति व्यवस्थिता अन्वयव्यतिरेकाभ्यां व्यावहारिकी अर्थवत्ता। तत्रेदमपरिहृतम्—'प्रकृतिरेव सर्वानर्थानभिदधाना दृश्‍यते प्रत्ययः सर्वार्थाभिधायी उभयं वोभयार्थाभिधायीति। तत्र परिहारः—दधि मधु अग्निचिदित्येवमादिषु वचनान्तराणामौकारादीनां श्रूयमाणत्वादन्येषां च सविभक्तिकानां प्रयोगदर्शनात्। अधुना इयानित्येवमादिषु प्रत्ययान्तरपरायाः प्रकृतेरवस्थानात् प्रकृत्यन्तराणां वा लोपदर्शनात्, इहाप्यकेवलस्यैवार्थाभिधानं प्रसक्तं; लोपादिद्वारेण शास्त्रदृष्ट्या केवलय विज्ञायते।

ननु 'न केवला प्रकृतिः प्रयोक्तव्या, न केवलः प्रत्यय' इति शास्त्रसमयः।

सत्यमेतत्; किंतु यत्र प्रकृतिनिमित्ता प्रत्ययनिवृत्तिस्तत्र केवलापि प्रकृतिः प्रयुज्यते। यत्र वा प्रत्ययनिमित्ता प्रकृतिनिवृत्तिस्तत्र केवलोऽपि इत्यभ्यनुज्ञायते। हैयङ्गवीनं, श्रोत्रियः, क्षेत्रिय इत्यादिषु तु संज्ञाशब्दे ह्योगोदोहस्य विकार इति, 'श्रोत्रियञ्छन्दोऽधीत' इति, 'परक्षेत्रे चिकित्स्य' इति प्रकृतिप्रत्ययविभागकल्पनया व्युत्पत्तिर्यथाकथंचिद्धर्मनियमाय क्रियते। एवं यावकादिष्वपि स्वार्थिकेषु प्रत्ययार्थस्याव्यतिरेकात् प्रकृत्यन्तरयोगे प्रातिपदिकानां च यावकादीनामर्थभेदात् प्रत्ययान्तरयोगे प्रकृतेः कल्पितायामर्थवत्तायां स्वार्थिकत्वं विज्ञायते। एको द्वौ बहव इत्यत्र प्रत्येकं वचनान्तरभावात् कर्मादिविषयावन्वयव्यतिरेकावाश्रीयेते। सामान्यतो दृष्टाच्चानुमानात् प्रकृत्यन्तरवदेकादीनां प्रवृत्तौ भिन्नरूपाणि वचनान्यसङ्करेण व्यवस्थां प्रकल्पयन्तीति प्रतीयते।