इयं च परिभाषा न प्रवर्तते 'अर्थवद्ग्रहणे नार्थकस्य' इति। तदेवमर्थवत्ताया निमित्तस्याभावे प्रातिपादिकसंज्ञा न प्रवर्तते; तदप्रवृत्तौ तु कथं प्रत्ययोत्पत्तिरिति?
नैवम्। प्रत्ययेन नित्यसम्बन्धात् केवलस्याप्रयोगः; नित्यसम्बन्धावेतावर्थौ प्रकृतिः प्रत्यय इति; अतो नित्यसम्बन्धात् केवलस्य प्रयोगे न भविष्यति।
ननु च भवानाम्रान् पृष्टः कोविदारानाचष्टे, अर्थवत्ता नोपपद्यते केवलेनावचनादिति पृष्टः केवलस्याप्रयोगे हेतुमाह। नाभिप्रायापरिज्ञानात् नन्वेवं ब्रवीमि; यदि तावत् केवलेनावचनादित्येवमयं हेतुरुपन्यस्तः यस्मात् केवलो न प्रयुज्यते तस्मादनर्थक इति, तदेवं वक्तव्यं केवलस्याप्रयोगादिति, न वक्तव्यं केवलेनावचनादिति। केवलस्य प्रयोगः शास्त्रसमयान्नास्ति, 'न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्यय' इति। न च लौकिका एवं प्रयुञ्जते; अत उक्तं नित्यसम्बन्धादयं केवले न प्रयुज्यते न त्वानर्थक्यादिति॥
अथैवमुपन्यस्तः केवलेन प्रयुज्यमानेन नोच्यतेऽसावर्थ इति। क्व पुनरयं भवता केवलः प्रयुज्यमानोऽर्थमब्रुवन् दृष्टः? यदि च प्रयुज्येत न चार्थ उपलभ्येत, स्यादयं हेतुः केवलेनावचनादिति। अन्यद् भवान् पृष्टोऽन्यदेव प्रतिविधत्ते। मया ह्येवमुच्यते, समुदायस्यार्थे प्रयोगादवयवार्थानामप्रसिद्धिरिति। यतो वर्णास्तावदनर्थका भवताभ्युपगताः; तेषां च समुदायतन्त्राणां केवलानां प्रयोगो नास्ति। यद्यपि प्रयुज्येरन् अनर्थकानामेव प्रयोगः स्यात्। एवं प्रकृतीनामपि समुदायतन्त्राणां नास्ति केवलानां प्रयोगः; योगे वा सत्यनर्थकाः प्रयुज्येरन्।
अथैवम्भूतानामर्थवत्ता, को नाम मत्सरो वर्णोष्विति ?
को नाम मत्सरः, यदेषामर्थवत्त्वेऽर्थवत्कार्याणि प्राप्नुवन्ति।
कान्यर्थवत्कार्याणि ? अर्थवत्प्रातिपदिकमिति प्रातिपदिकसंज्ञा, 'प्रातिपादिकाद्' इति स्वाद्युत्पत्तिः, 'सुबन्तं पदम्' इति पदसंज्ञा च।
प्रत्यवयवं विभक्तेः श्रवणं प्राप्नोति।
नैवं, यदैवावयवानां प्रातिपदिकसंज्ञा प्रवर्तते तदैव समुदायस्यापीति समुदायान्तर्गतत्वात् 'सुपो धातुप्रातिपदिकयोः' (२.४.७१) इति लुका भाव्यम्। तत्कुतो विभक्तेः श्रवणम्?