भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1051 to 1060 of 1087 verses
इयं च परिभाषा न प्रवर्तते 'अर्थवद्‌ग्रहणे नार्थकस्य' इति। तदेवमर्थवत्ताया निमित्तस्याभावे प्रातिपादिकसंज्ञा न प्रवर्तते; तदप्रवृत्तौ तु कथं प्रत्ययोत्पत्तिरिति?

नैवम्। प्रत्ययेन नित्यसम्बन्धात् केवलस्याप्रयोगः; नित्यसम्बन्धावेतावर्थौ प्रकृतिः प्रत्यय इति; अतो नित्यसम्बन्धात् केवलस्य प्रयोगे न भविष्यति।

ननु च भवानाम्रान् पृष्टः कोविदारानाचष्टे, अर्थवत्ता नोपपद्यते केवलेनावचनादिति पृष्टः केवलस्याप्रयोगे हेतुमाह। नाभिप्रायापरिज्ञानात् नन्वेवं ब्रवीमि; यदि तावत् केवलेनावचनादित्येवमयं हेतुरुपन्यस्तः यस्मात् केवलो न प्रयुज्यते तस्मादनर्थक इति, तदेवं वक्तव्यं केवलस्याप्रयोगादिति, न वक्तव्यं केवलेनावचनादिति। केवलस्य प्रयोगः शास्त्रसमयान्नास्ति, 'न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्यय' इति। न च लौकिका एवं प्रयुञ्जते; अत उक्तं नित्यसम्बन्धादयं केवले न प्रयुज्यते न त्वानर्थक्यादिति॥

अथैवमुपन्यस्तः केवलेन प्रयुज्यमानेन नोच्यतेऽसावर्थ इति। क्‍व पुनरयं भवता केवलः प्रयुज्यमानोऽर्थमब्रुवन् दृष्टः? यदि च प्रयुज्येत न चार्थ उपलभ्येत, स्यादयं हेतुः केवलेनावचनादिति। अन्यद् भवान् पृष्टोऽन्यदेव प्रतिविधत्ते। मया ह्येवमुच्यते, समुदायस्यार्थे प्रयोगादवयवार्थानामप्रसिद्धिरिति। यतो वर्णास्तावदनर्थका भवताभ्युपगताः; तेषां च समुदायतन्त्राणां केवलानां प्रयोगो नास्ति। यद्यपि प्रयुज्येरन् अनर्थकानामेव प्रयोगः स्यात्। एवं प्रकृतीनामपि समुदायतन्त्राणां नास्ति केवलानां प्रयोगः; योगे वा सत्यनर्थकाः प्रयुज्येरन्।

अथैवम्भूतानामर्थवत्ता, को नाम मत्सरो वर्णोष्विति ?

को नाम मत्सरः, यदेषामर्थवत्त्वेऽर्थवत्कार्याणि प्राप्‍नुवन्ति।

कान्यर्थवत्कार्याणि ? अर्थवत्प्रातिपदिकमिति प्रातिपदिकसंज्ञा, 'प्रातिपादिकाद्' इति स्वाद्युत्पत्तिः, 'सुबन्तं पदम्' इति पदसंज्ञा च।

तत्र को दोषः?

प्रत्यवयवं विभक्तेः श्रवणं प्राप्नोति।

नैवं, यदैवावयवानां प्रातिपदिकसंज्ञा प्रवर्तते तदैव समुदायस्यापीति समुदायान्तर्गतत्वात् 'सुपो धातुप्रातिपदिकयोः' (२.४.७१) इति लुका भाव्यम्। तत्कुतो विभक्तेः श्रवणम्?