नन्वेवं सति शब्दस्यैकार्थोपक्षयस्यार्थान्तरेण असम्बन्धादर्थस्याप्येकशब्दो— पक्षयस्यान्यत्रासङ्क्रान्तेः कूपसूपयूपादिवदेवान्वयव्यतिरेकौ नावकल्पेते। न हि य एवैकत्वसम्बन्धी स द्वित्वादिसम्बन्धी, यो वा प्रातिपदिकत्वेनार्थमात्रप्रवृत्तिः सशक्त्यरसम्बन्धी न भवितुमर्हति। न खलु शब्दः कश्चिदुत्तरकालमर्थान्तरं परित्यजत्युपादत्ते वा। तदुक्तम् — (वाप. २.१३)
यदस्य (शब्दस्य) न विभागोऽस्ति कुतोऽर्थस्य भविष्यति।
विभागैः प्रक्रियाभेदमविद्वान् प्रतिपद्यते॥ २१०॥
एवमेतत्। किन्तु त्रिविधः शब्दः — निवर्त्योऽन्वाख्येयः प्रतिपादकश्च१ (वाप. १.२४, मभा.१.१.५०)। तेष्वधर्महेतुरप्रभ्रंशो निवर्त्यः, धर्महेतुर्लोकवेदयोः प्रयोगार्होऽन्वाख्येयः। प्रकृतिप्रत्ययादिविभागकल्पनया तत्स्वरूपावबोधकृत् प्रतिपादकः। तदर्थमन्व— यव्यतिरेकावविद्यमानावपि व्यवस्थार्थं कल्पितौ शास्त्रार्थव्यवहारनिबन्धनं सम्पद्येते। शास्त्रव्यवहारो हि 'अर्थवत् प्रातिपदिकम्' (१.२.४५) 'क्रियावचनो धातुः' (मभा.१.३.१) इत्यादिरनाश्रितयोरन्वयव्यतिरेकयोरसुकर एव। तदाह — (वाप. २.१२)
भागैरनर्थकैर्भिन्नाः पचतीत्येवमादयः।
अन्वयव्यतिरेकौ तु व्यवहारनिबन्धनम्॥ २११॥
अभिधा च विवक्षा च तात्पर्यं च विभागवत्।
चतस्त्रः केवला ह्येताश्शब्दसम्बन्धशक्तयः॥ २१२॥
यापेक्षा यच्च सामर्थ्यमन्वयो यश्च तैर्मिथः।
ऐकार्थ्यं यच्च तास्तस्य ससहायस्य शक्तयः॥ २१३॥