भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1071 to 1080 of 1087 verses
नन्वेवं सति शब्दस्यैकार्थोपक्षयस्यार्थान्तरेण असम्बन्धादर्थस्याप्येकशब्दो— पक्षयस्यान्यत्रासङ्क्रान्तेः कूपसूपयूपादिवदेवान्वयव्यतिरेकौ नावकल्पेते। न हि य एवैकत्वसम्बन्धी स द्वित्वादिसम्बन्धी, यो वा प्रातिपदिकत्वेनार्थमात्रप्रवृत्तिः सशक्त्यरसम्बन्धी न भवितुमर्हति। न खलु शब्दः कश्चिदुत्तरकालमर्थान्तरं परित्यजत्युपादत्ते वा। तदुक्तम् — (वाप. २.१३)

यदस्य (शब्दस्य) न विभागोऽस्ति कुतोऽर्थस्य भविष्यति।

विभागैः प्रक्रियाभेदमविद्वान् प्रतिपद्यते॥ २१०॥

एवमेतत्। किन्तु त्रिविधः शब्दः — निवर्त्योऽन्वाख्येयः प्रतिपादकश्च१ (वाप. १.२४, मभा.१.१.५०)। तेष्वधर्महेतुरप्रभ्रंशो निवर्त्यः, धर्महेतुर्लोकवेदयोः प्रयोगार्होऽन्वाख्येयः। प्रकृतिप्रत्ययादिविभागकल्पनया तत्स्वरूपावबोधकृत् प्रतिपादकः। तदर्थमन्व— यव्यतिरेकावविद्यमानावपि व्यवस्थार्थं कल्पितौ शास्त्रार्थव्यवहारनिबन्धनं सम्पद्येते। शास्त्रव्यवहारो हि 'अर्थवत् प्रातिपदिकम्' (१.२.४५) 'क्रियावचनो धातुः' (मभा.१.३.१) इत्यादिरनाश्रितयोरन्वयव्यतिरेकयोरसुकर एव। तदाह — (वाप. २.१२)

भागैरनर्थकैर्भिन्नाः पचतीत्येवमादयः।

अन्वयव्यतिरेकौ तु व्यवहारनिबन्धनम्॥ २११॥

अभिधा च विवक्षा च तात्पर्यं च विभागवत्।

चतस्त्रः केवला ह्येताश्शब्दसम्बन्धशक्तयः॥ २१२॥

यापेक्षा यच्च सामर्थ्यमन्वयो यश्च तैर्मिथः।

ऐकार्थ्यं यच्च तास्तस्य ससहायस्य शक्तयः॥ २१३॥

Showing 1071 to 1080 of 1087 verses