पदे वाक्ये प्रबन्धे वाऽस्यैतावतः शब्दस्यायमर्थोऽस्मिन्नर्खे चायमेतावान् शब्द इति शब्दार्थयोर्मिथः सम्बन्धितया पृथक्त्वेनावधारणं प्रविभागः।
स त्रि(द्वि)विधोऽन्वयव्यतिरेकाभ्याम्। इह खल्वत्यन्तसंसृष्टानां पदार्थानां प्रविभागेऽन्वयव्यतिरेकाभ्यां नान्यो हेतुरस्ति। यथा लोके बधिरोऽपि १चक्षुष्मानालोकयति, सत्यपि श्रोत्रे उपहतचक्षुर्नालोकयति रूपमित्यन्वयव्यतिरेकाभ्यां चक्षुश्श्रोत्रसन्निधाने रूपालोकनं चक्षुष एव व्यवस्थाप्यते न श्रोत्रस्यः तथा शब्दशास्त्रेऽपि सुबन्तेषु तिङन्तेषु च पदेष्वत्यन्तसंसृष्टा अर्थात्मानः शब्दाश्च प्रकृतिप्रत्ययादयो मिथस्सम्बन्धित्वेनान्वयव्यतिरेकाभ्यामेव प्रविभज्यन्ते।
तत्रावस्थितस्यानुवृत्तिरन्वयः।
तद्विपर्ययो व्यतिरेकः। स द्विविधो जन्महानिभ्याम्। तद्यथा—
वृक्ष इत्युक्ते कश्चिच्छब्दः श्रूयते; वृक्ष इत्यकारान्तः सकारश्च प्रत्ययः, अर्थोऽपि कश्चिद् गम्यते शाखादिमत्त्वमेकत्वं च।
ऋक्ष इत्युक्ते कश्चिच्छब्दो हीयते, कश्चिदुपजायते, कश्चिदन्वयी।
१. 'चक्षुष्मान् नालो' इति राघवः।
वृक्षशब्दो हीयते, ऋक्षशब्द उपजायते, सकारोऽन्वयी।
अर्थोऽपि कश्चिद्धीयते कश्चिदुपजायते कश्चिदन्वयी;