तर्हि जातेः नेति वक्तव्यम्, वृक्षात् प्लक्षादेः मा भूदिति।
न वक्तव्यम्। जननेन या प्राप्यते सा जातिः। न चैतस्यार्थस्य प्रकर्षापकर्षौ स्तः।
अथ शुक्लतर इत्यादिषु किमेकं शौक्ल्यम्, आहोस्विन्नाना।
यद्येकम्, प्रकर्षो नोपपद्यते; न हि तेनैव तस्य प्रकर्षो भवति। अथ नाना ? समानगुणग्रहणं कर्तव्य, शुक्लात् कृष्णो मा भूदिति। एकं शौक्ल्यं, तत्तु विशेषवत्।
अल्पत्वबहुत्वकृतः। अथवा पुनरस्त्वेकं निर्विशेषं च।
ननूक्तं प्रकर्षो नोपपद्यते, गुणान्तरेण प्रच्छादनाद् भविष्यति।
अथेहास्य शुक्लानि वस्त्राणि, अस्यातिशयेन शुक्लानीति शुक्लतरवस्त्र इति प्राप्नोति। शुक्लवस्त्रतर इति चेष्यते।