भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 951 to 960 of 1087 verses
मैवम्; न हि द्राक्षायास्तत्रापरिसमाप्‍तिः, अपि तु गुडस्य। येन हि गुणेन माधुर्यादिना गुडशब्दो द्राक्षायां वर्तमानो गौणीं वृत्तिमनुभवति तस्यैवेषदसमाप्‍तौ प्रत्ययो विधीयते। अद्यैवं गुडस्येषदपरिसमाप्‍तौ वर्तमानस्य स्वार्थे प्रत्ययविधानात् बहुगुडो द्राक्षेति। सोऽयमित्यभिसम्बन्धाद् अव्यतिरेक इति चेद् व्यतिरेकमूलत्वाद— व्यतिरेकस्य प्रसङ्गः, यथा शुक्लः पटः. पटस्य शुक्ल इति।

नैवम्; उपपद्यमानव्यतिरेकाणामुभयं भवति। न चात्र तदुपपत्तिः; न हि यथा शुक्लगुणोऽस्तीति मतुब्लोपादपृथक्सिद्धशुक्लगुणवाचिना शुक्लशब्देन पटोऽभिधीयते, तथा गुड इत्यनेन। स हि द्रव्यशब्दो द्रव्यान्तरसामानाधिकरण्यान्यथानुपपत्त्या गौणीं वृत्तिमाश्रित्य स्वनिबन्धनं द्रव्यान्तरे व्यतिरेकमुपनिधत्ते। तत्र सामानाधिकरण्यभ्रंशात् गुणवृत्तेरपि भ्रंशो मा भूदिति न व्यतिरेकलक्षणा षष्ठी भवति। न च गुणवचनानामपि केषांञ्चिल्लोके व्यतिरेक उपलभ्यते। न हि भवति पटुः पटुकल्पोऽयं देवदत्त इति।

१६. कथं पुनर्गुणवृत्त्याप्युपमेये वृत्तेर्गुडशब्दात् स्वार्थे विधीयमानः प्रत्यय उपमानं प्रत्याययति,

द्रव्यवत् प्रवृत्तिनिमित्तस्यापि स्वार्थत्वात्। तथा हि चञ्चा तृणमयः पुरुषो यः क्षेत्ररक्षणाय क्रियतेः तस्य च पुरुषे प्रवर्तमानस्य स्वाकारः प्रवृत्तिनिमित्तम्; अतः 'इवे प्रतिकृतौ' (५.३.९६) इतीवार्थे तत्रैव प्रत्ययो भवति।

१७. ननु च यदि प्रतिकृतौ वर्तमानात् प्रातिपदिकात् स्वार्थे प्रत्ययः, किम् इवार्थ इत्यनेन ? अथेवार्थे कृतं प्रतिकृतावित्यनेन ?

उच्यते; उपचरितशब्दानां शक्तिमहिम्‍नैव त्रयी गतिर्भवति। क्‍वचिदिवार्थ एव स्वार्थिकः, 'कुशाग्रीया बुद्धिः, शैलेयं दधीति। क्‍वचित् प्रतिकृतावेव, 'वासुदेवो भीमसेन' इति। क्‍वचिदिवार्थे प्रतिकृतौ च, यथा वरोरूः पीवरोरूरिति। अत्र यदि वरशब्देन पीवरशब्देन वा ऊर्वोरेव गुणोऽभिधीयेत तदा 'ऊरूत्तरपदादौपम्ये' (४.१.६९) इत्यूङ्न सिद्ध‍यति। ततश्चौपम्याय कर्तव्योऽत्र य X X X वं स्यात्। यदि वरशब्दः पीवरशब्दो वा वरे पीवरे च रम्भास्तम्भस्तम्बेरमकरादौ वर्तित्वात् तत्सादृश्‍यात् तदुपमेययोरूर्वोर्वर्तेत, तच्‍चेवार्थे प्रतिकृतौ वर्तमानयोस्तयोः प्रत्ययलुग्विधावे भवति। अन्यथा हि 'वरत्वं पीवरत्वमेव' च लभ्यते, न संस्थानविशेष इति।

न भवितव्यम्। प्रत्ययमन्तरेणापि स्वस्रदीनामिव तस्य ताच्छीलिकान्तत्वेन स्त्रीत्वाभिधानमेव 'ऋन्नेभ्यो ङीप्' (४.१.५) इत्यस्य 'न षट्स्वस्त्रादिभ्यः' (४.१.१०) इति प्रतिषेधः प्रत्याख्यायते। किं पुनरमी उपमानशब्दा लुप्‍तप्रत्ययत्वेन गुणीभूता एव कल्पबादीनामुत्पत्तिनिमित्तं भवन्ति ?

बाढम्। 'अजादी गुणवचनादेव' (५.३.५८) इत्यतो हि गुणवचनादित्य— धिक्रियते। ततश्च बूहुच्कल्पब्देश्‍यदेशीयर ईषदसमाप्‍तिम्, एवं प्रशंसायां रूपप् विधीयमानः पचतिरूपं पचतोरूपं पचन्तिरूपमिति क्रियालक्षणस्य गुणस्यैव प्रशंसां द्योतयन्ति। अन्यथा हि सर्वत्रैकवचनं न स्यात् (मभा. ५.३.३६)। न च द्रव्यस्य समाप्‍तिः असमाप्‍तिः कुत्सा प्रशंसा वा स्वतः सम्भवति, अपि तु गुणतः। अतश्च गौण्या मुख्यया वा मन्दमध्योत्कृष्टेषु गुणेषु वर्तमानात् प्रातिपदिकादीषदसमाप्‍तौ द्योत्यायां कल्पबादयो भवन्ति।

१८. ननु च निर्ज्ञातस्यार्थस्य समाप्‍तिरसमाप्‍तिर्वा भवति। गुणश्च अनिर्ज्ञातः, लोकतो गुणस्य निर्ज्ञानम्। तद्यथा पटुरयं ब्राह्मणः, यो लघुनोपायेनार्थं निर्वर्तयति, पटुकल्पोऽयं यो नातिलघुनेति। एवं 'पटुतरः' शुक्लतमः कनीयाम् पटिष्ठः उत्कृष्टतरः वैयाकरणपाश' इत्यादिषु तरबादयोऽपि गुणवचनेभ्यो विधीयमाना गुणगतमेव प्रकर्षं द्योतयन्ति।

१९. कथं पुनरतिशायनादौ विधीयमानास्तरबादयो गुणप्रकर्षे भविष्यन्ति, न पुनर्द्रव्यप्रकर्ष इति ?

Showing 951 to 960 of 1087 verses