ननु मूर्तिभिरष्टाभिरित्थम्भूतोऽस्मि सूचितः॥ २००॥
तदमुना विशेषणपञ्चकेनैतदुक्तं भवति—(सेब. १.१)
णमह अवड्ढिअतुंगं अवसारिअवित्थअं अणोणअ—गहिरं।
अप्पलहुअ—परिसण्हं अणाअपरमत्थपाअडं महुमहणं॥ २०१॥
(नमत अवर्धिततुङ्गमप्रसारित—विस्तृतमनवनतगभीरम्।
अप्रलघुक—परिश्लक्ष्णमज्ञातपरमार्थप्रकटं मधुमथनम्॥)
८. ननु च पात्विति नायं विधौ लोट्, अपि त्वाशिषि। सा च विशेषस्याश्रुतौ स्वरूपादेवात्मविषयतयातिष्ठत इति कथं विश्वविषया भवति ?
अयं निजः परो वेति विकल्पा लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥ २०२॥