वपुश्शब्देन पुनरिह विशेषणपक्षे यौवनपल्लवितलावण्यलक्ष्मीकं समग्रात्मगुणसम्पदाश्रयः शरीरमुच्यते, न त्वादिकर्तृकसृष्टिसंहारकादि।
वपिर्हि सृष्टिसंहारयोरिव कान्तावपि दृश्यते। तद्यथा — 'गोभिर्वपावान्' (मभा.२.१.३०), वपुष्टमा नामाप्सरोविशेष (महाभारते १) इति। तत्राच्छिन्नमेखलमित्यादीनि कान्ताविमिश्रवपुष इति। समासपदान्तर्गतयोर्वियुक्तिसंयुक्तिक्रिययोर्गमकत्वाद् विशेषणानि भवन्ति; यथा कर्तुंमनाः कटं, गन्तुकामो ग्राममिति।
४. अथ सम्भोगपक्षे अच्छिन्नमेखलमित्यादीनि कथं सम्बन्धन्ते ?
उच्यते। एवं नाम रागान्धतया कान्ताभिः सह ते संयुक्ताः येन मेखलाच्छेदमालिङ्गनं चुम्बनमालोकनं च परमानन्दमग्नाः कर्तुं न पारयन्ति, 'तद्यथा प्रियया स्त्रिया परिष्वक्तो न बाह्यं किंचन वेद नान्तरम्' (बृप. ४.३.२१) इति; यथा च—
धन्यासि या कथयसि प्रियसङ्गमेऽपि विस्त्रब्धचाटुकशतानि रतान्तरेषु।
नीवीं प्रति प्रणिहितस्तु करः (ते तु करे) प्रियेण सख्यः शपामि यदि किञ्चिदपि स्मरामि॥ १९७॥
एवमयं प्रथमश्लोकः 'पदान्येव संहत्यार्थमभिदधति वाक्यम्' इति पक्षे व्याख्यायते।
५. अथाखण्डवाक्यार्थपक्षे व्याख्यायते। तथा हि —
एवमिह पदानामन्वयो भवति—'पातु।