एअं भो जाआभीरुआण तूहं तित्थं विअ ण होई॥ १८१॥
(अन्यत्र व्रज बालक! मज्जन्तीं/स्नान्तीं कस्माद् मां प्रलोकयसि।
एवम् भो जायभीरुकाणां तीर्थमेव न भवति॥)
अत्र किं मां मज्जन्तीं प्रलोकयसि, अन्यत्र व्रज, नेदं जायाभीरूणां तीर्थमित्य— भिधीयमानो जायायास्त्वं बिभेषि, तेन मां न कामयस इत्युपालम्भार्थं प्रत्याययन् स्नेहं विना युवतीनामीर्ष्यायितं भवतीति ध्वनति। तच्च तस्या अनुरागार्थानुस्यूतमेवानुनादरूपं ध्वनतीत्यनुनादध्वनिः। एवं 'अत्ता एत्थ णिमज्जइ' इत्यादिवाक्ये निषेधे विधिः प्रतीयमानः कदाचिदयमन्धकारे मदभ्रान्त्या श्वश्रूं प्रति यायादित्युत्प्रेक्षमाणायाः स्खलितप्रतिविधानरूपं रात्र्यन्धपदाभिधानमपि नयवत्या वैदग्ध्यं ध्वनति। तच्चाभिधीयमानप्रतीयमानयोरनुस्यूतेन प्रतीयत इत्यनुनादध्वनिः। तथा— 'महुएहि किं वि पंथिअ' इत्यादौ अविधिनिषेधे विधिः प्रतीयमानो मधूकापचायिकायाः प्रार्थनावैदग्ध्यं ध्वनति। तच्च प्रतीयमानार्थानुस्यूतमेवानुनादमिवोपलभ्यत इत्यनुनादध्वनिः। अपि च—'उच्चिणसु पडिअं कुसुमं मा धुण सेहालिअं' इत्यादिवाक्ये विधिनिषेधयोर्निषेधः प्रतीयमानः स्खलितगोपनेषु सखीवैदग्ध्यं ध्वनति। स च शेफालिकापुष्पावचयव्याजेन पश्चाद्वाटमुपगताया हालिकस्नुषायास्तत्रागतेनोपपतिना सह प्रवृत्ते चौर्यरतकलहे कुड्यान्तरितश्वशुराकर्ण्यमानमनोहरवलयशब्दप्रतिषेधपरतया प्रवर्तमानः स्नुषानुस्यूतमेल शेफालिकाशाखावधूननं सवलयकरावधूननं च कांस्यध्वनिरूपेणानुनादो ध्वनिं प्रतिपादयन्ननुनादध्वनिव्यपदेशमासादयतीति।
यः पुनरभिधीयमानवाक्यार्थात् पृथग्भूत इव गुहादिप्रतिशब्दानुरूपमर्थान्तरं प्रत्याययन् प्रतिध्वनति स प्रतिशब्दध्वनिः। यथा —
लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह संप्लवन्ते।
उन्मज्जति द्विरकुम्भतटी च यत्र यत्रापरे कदलकाण्डमृणालदण्डाः॥ १८२॥
यथा— गुहायां पौरुषादिशब्दानां प्रतिशब्दा जायन्ते, ते च ध्वनिं जनयन्त उपलभ्यन्ते, एवं लावण्यसिन्धुरित्येतस्मिन् पद्यार्थे उत्पलादिशब्दानां यथा स्वोपमेयलोचनाद्यर्थप्रतिशब्दा जायन्ते, ते चार्थान्तरध्वनिं जनयन्त उपलभ्यन्ते, तथेह च यथाश्रूयमाणानामुत्पलादीनामर्थोऽभिधीयमानः तस्य लोचनाद्यर्थैः सह सादृश्यं प्रत्याययन् वर्णनीयायाश्चारुत्वोत्कर्षप्रतीतिं ध्वनति। सा ततः पृथगिवोपलभ्यमाना प्रतिशब्दध्वनिः। यथा—(वायु. ८३.११)
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्।
यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत्॥ १८३॥