प्रतीयमानाभिधीयमानवाक्यार्थानामानन्त्याद् ध्वनिरूपम् अप्यनेकप्रकारमेव। ध्वनिश्च द्विधा १. अर्थध्वनिः, २. शब्दध्वनिश्च। तयोः —
१. अर्थध्वनिः अनुनादध्वनिरूपः प्रतिशब्दध्वनिरूपश्च। तत्र—
योऽभिधीयमानवाक्यार्थानुस्यूतमेव कांस्यानुनादरूपमर्थान्तरं ध्वनति, स अनुनादध्वनिः। यथा—
शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः।
तरुणि! येन तवाधरपाटलं दशति बिम्बफलं शुकशाबकः॥ १७९॥
अत्र यथाश्रुतवाक्यार्थोऽभिधीयमानो बिम्बफलारुणाधर इत्युपलक्षणेन रागातिशयं प्रत्याययन्नाल्पपुण्यस्त्वदधरप्रतिनिधिमपि चुम्बतीति चाटुना वर्णनीयायाः स्वानुराग— प्रकाशनं ध्वनति। एतच्च कांस्यध्वनिवदविच्छिन्नमेव ध्वनन्ननुनादरूपं प्रतीयत इत्यनुनादध्वनिः। तथा—
शान्त्यै वोऽस्तु कपालदाम जगतां पत्युर्यदीयां लिपिं क्वापि क्वापि गणाः पठन्ति पदशो नातिप्रसिद्धाक्षराम्।
विश्वं स्रक्ष्यति वक्ष्यति क्षितिमपामीशिष्यतेऽशिष्यते नागै रागिषु रंस्यतेऽत्स्यति जगन्निर्वेक्ष्यति द्यामिति॥ १८०॥
अत्र गणाः कपाललिपिमप्रसिद्धक्षरां पदशः पठन्तीति वाक्यार्थोऽभिधीयमान— स्तानि कपालानि ब्रह्मादीनामिति प्रत्याययन् महाध्वो(र्थो)पसंहारे भगवतोऽनुपहत— प्रभावस्यैकाकिनोऽवस्थानम् इव (इति) ध्वनति। तच्च 'विश्वं' स्रक्ष्यतीत्यादि— पदार्थानुस्यूतमेवाऽनुनादवन्निरूप्यत इत्यनुनादध्वनिः। एवम्—
अण्णत्त/त्थ वच्च बालअ मज्जंतिं/ण्हअंतिं कीस मं पलोएसि।