अत्र शनैर्व्रजेति विध्यभिधाने हि न विधिर्नापि निषेधः, अपि तु वर्णनामात्रं प्रतीयते।
१०. क्वचिन्निषेधेऽनुभयं यथा—(गास. ९६८ वे.)
दे आ पसिअ णिवत्तसु मुहससिजोण्हाविलुत्ततमणिवहे।
अहीसारिआण विग्घं करेसि अण्णाण वि हआसे॥ १७६॥
(प्रार्थये तावत् प्रसीद निवर्तस्व मुखशशिज्योत्स्नाविलुप्ततमोनिवहे।
अभिसारिकाणां विघ्नं करोषि अन्यासामपि हताशो !॥)
अत्र निवर्तस्वेति निषेधाभिधानेऽपि न निषेधो नापि विधिः; अपि तु मुखेन्दुकान्तिः प्रतीयते।
११. क्वचिद् विधिनिषेधयोरनुभयं यथा—(गास. पृ.९४४ वे.)
वच्च मह च्चिअ एक्काए होंतु णीसास—रोइअव्वाइं।
मा तुज्झ वि तीए विणा दक्खिण्णहअस्स जाअंतु॥ १७७॥