जीविताशा बलवती धनाशा दुर्बला मम।
गच्छ वा तिष्ठ वा कान्त ! स्वावस्था तु निवेदिता॥ १७२॥
अत्र गच्छ वा तिष्ठ वेत्यविधिनिषेधाज्जीविताशा बलवती धनाशा दुर्बला ममेति वचनात् त्वया विनाहं जीवितुं न शक्नोमीत्युपक्षेपेण गमननिषेधः प्रतीयते।
७. क्वचिद् विधिनिषेधयोर्विध्यन्तरं यथा— (गास. पृ. ९५७ वे.)
णिअदइअदंसणक्खित्त पहिअ अण्णेण वच्चसु पहेण।
गहवइधूआ दुल्लंघवाउरा इह हअग्गामे॥ १७३॥
(निजदयितादर्शनोत्सिक्त ! पथिक ! अन्येन व्रज पथा।
गृहपतिदुहिता दुर्लङ्घवागुरा इह हतग्रामे॥)
अत्रान्येन पथा व्रजेति विधिनिषेधयोरभिधाने हे स्वकान्ताभिरूपताविकत्थन पान्थाभिरूपक इह ग्रामे भवतो गृहपतिसुता द्रष्टव्यरूपेति विध्यन्तरं प्रतीयते।
८. क्वचिद् विधिनिषेधयोर्निषेधान्तरं यथा—(गास.(वे) ९५९)