(आस्वादितमज्ञातेन यावत् तावदेव बंधान धृतिम्।
उपरम वृषभेदानीं रक्ष्यते गृहपतिक्षेत्रम्॥)
अत्र गृहपतिक्षेत्रे दुष्टवृषवारणपरे निषेधवाक्ये उपपतिवारणं निषेधान्तरं प्रतीयते।
५. क्वचिद् विधिनिषेधे विधिर्यथा—(वल. ४९१)
महुएहिं किंव पंथिअ जइ हरसि णिअंसणं णिअंवाओ।
वाहेमि कस्स रण्णे गामो दूरे अहं एक्का॥ १७१॥
(मधुकैः किंवा पान्थ यदि हरसि निवसनं नितम्बात्ष।
आह्वयामि कस्यारण्ये ग्रामो दूरे अहं एका॥)
अत्र विधिनिषेधयोरनभिधाने 'अहमेकाकिनी ग्रामो दूर' इति विविक्तोपदेशान्नितम्ब— वासोऽपि मे हरेति विधिः प्रतीयते।
६. क्वचिद् अविधिनिषेधे यथा—(काव्याद. २.१३९)