उच्चिणसु पडिअ—कुसुमं मा धुण सेहालिअं हलिअसुह्णे।
एस अवसाणविरसो ससुरेण सुओ वळअसद्दो॥ १७४॥
(उच्चिनु पतितकुसुमं मा धुनीहि शेफालिकां हालिकस्नुषे।
एष अवसानविरसः श्वशुरेण श्रुतो वलयशब्दः॥)
अत्र पतितं कुसुममुच्चिनु मा धुनीहि शोफालिकामिति विधिनिषेधयोरभिधाने 'सखि ! चौर्यरते प्रसक्ते वलयशब्दो न कर्तव्य इति निषेधान्तरं प्रतीयते।
९. क्वचिद् विधावनुभयं यथा—
सणिअं वच्च किसोअरि पए पअत्तेण ववसुमहि पट्टेदि/ठवसु महिवट्ठे।
भञ्जिहिसि वित्थअत्थणि विहिणा दुक्खेण णिम्मविआ॥ १७५॥
(शनैर्व्रज कृशोदरि ! बहुप्रयत्नेन व्यवस्यामः पृष्ठतः/स्थापय महीपृष्ठे।
भङ्क्ष्यसि विस्तृतस्तनि ! विधिना दुःखेन निर्मापिता॥)