(व्रज ममैवैकस्या भवन्तु निःश्वासरोदितव्यानि।
मा तवापि तया विना दाक्षिण्यहतस्य जायन्ताम्॥)
मा तवापि तां विना तानि जायन्तामिति विधिनिषेधयोरभिधाने न विधिर्नापि निषेधः ; अपि तु कृतव्यलीकप्रियतमोपालम्भनमात्रं प्रतीयते।
१२. क्वचिद् अविधिनिषेधेऽनुभयं यथा—(गास. २.७१)
गोलाणइए तूहे/कच्छे चक्खंतो राइआइ पत्ताइं।
उप्फडइ मक्कडो खोक्खएइ पोट्टं च पिट्टेइ॥ १७८॥
(गोदानद्याः तीर्थे/कच्छे चर्वयन् राजिकायाः पत्राणि।
उत्पतति मर्कटः खोक्खशब्दं करोत्युदरं च ताडयति॥)
अत्र न विधिर्नापि निषेधोऽभिधीयते। नाप्येनयोः अन्यः, सङ्केतकुडुंगे अभ्यागतो भवान्न गत इति तं ज्ञापयतीति प्रतीयते।