अत्र शय्यायां मा निषत्स्यसीति निषेधवाक्ये इयं श्वूश्रूशय्या, इयं मच्छय्येति दिवाभ्युपलक्ष्य रात्रौ त्वयेहागन्तव्यमिति विधिः प्रतीयते।
३. क्वचिद्विधौ विध्यन्तरं यथा— (गास. ४.३५)
बहलतमा हअराई अज्ज पउत्थो पई घरं सुण्णं।
तह जग्गिज्ज सअज्जिअ/ ज्झिअ ण जहा अम्हे मुसिज्जामो॥ १६९॥
(बहलतमा हतरात्रिरद्य प्रोषितः पतिः, गृहं शून्यम्।
तथा जागृहि प्रतिवेशिन् ! न यथा वयं मुष्यामहे॥)
अत्र यथा वयं न मुष्यामहे तथा जागृहीति विध्याभिधाने रात्रिरत्यन्धकारा, पतिः प्रोषितो, गृहं शून्यम् अतस्त्वमभयो मत्पार्श्वमागच्छेति विध्यन्तरं प्रतीयते।
४. क्वचिन्निषेधे निषेधान्तरं यथा—(गास. ९५८ वे.)
आसाइअं अणाएण जेत्तियं तेत्तिएण बंध दिहिं।
ओरमसु वसह एण्हिं रक्खिज्जइ गहवईछित्तं॥ १७०॥