माता च मम वन्ध्यासीत्स्मराभोऽनुपमो भवान्॥ १९९॥
धर्मार्थकामादिशास्त्रकृत आगमविरोधः। तत्र—
धर्मशास्त्रविरुद्धं यथा—(काव्याद. ४.५६)
असावनुपनीतोऽपि वेदानधिजगे गुरोः।
स्वभावशुद्धः स्फटिको न संस्कारमपेक्षते॥ २००॥
कामोपभोगसाफल्यफलो राज्ञां महीजयः।
अहङ्कारेण जीयन्ते द्विषन्तः किं नयश्रिया॥ २०१॥
कामशास्त्रविरुद्धं कालशास्त्रविरुद्धं कामविरुद्धम्, यथा—
तवोत्तरोष्ठे बिम्बोष्ठि ! दशानाङ्कोऽतिशोभते।