भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 871 to 880 of 1676 verses
पूर्णसप्‍तस्वरः सोऽयं भिन्नमार्गः प्रवर्तते॥ २०२॥

(१०. गुणोपादानम्)

निर्दोषस्य च काव्यस्य शरीरवस्तुनः (शरीरस्येव) कामनीयकोपपत्ता— वयमुपायो यदुणोपादानमलङ्कारयोगश्च। तदाह—

युवतेरिव रूपमङ्ग ! काव्यं स्वदते शुद्धगुणं तदप्यतीव।

विहितप्रणयं निरन्तराभिः सदलङ्कारविकल्पकल्पनाभिः॥ २०३॥

तत्र च गुणोपादानालङ्कारयोगयोर्गुणोपादानं गरीयः। अतस्तदेव प्रथममुच्यते। तदाह—

यदि भवति वचश्‍च्युतं वपुरिव यौवनवन्ध्यमङ्गनायाः।

अपि जनदयितानि दुर्भगत्वं नियतमलङ्करणानि संश्रयन्ते॥ २०४॥

अयमेव गुणालङ्कारयोर्विशेषो यदुणोपादाने नियमोऽलङ्कारयोगे तु कामचार इति।

गुणाश्च युवत्याः शरीरेषु त्रिविधास्तदर्थिनामादरातिशयहेतवो भवन्ति बाह्या आन्तरा वैशोषिकाश्च। तत्र—

Showing 871 to 880 of 1676 verses