पूर्णसप्तस्वरः सोऽयं भिन्नमार्गः प्रवर्तते॥ २०२॥
निर्दोषस्य च काव्यस्य शरीरवस्तुनः (शरीरस्येव) कामनीयकोपपत्ता— वयमुपायो यदुणोपादानमलङ्कारयोगश्च। तदाह—
युवतेरिव रूपमङ्ग ! काव्यं स्वदते शुद्धगुणं तदप्यतीव।
विहितप्रणयं निरन्तराभिः सदलङ्कारविकल्पकल्पनाभिः॥ २०३॥
तत्र च गुणोपादानालङ्कारयोगयोर्गुणोपादानं गरीयः। अतस्तदेव प्रथममुच्यते। तदाह—
यदि भवति वचश्च्युतं वपुरिव यौवनवन्ध्यमङ्गनायाः।
अपि जनदयितानि दुर्भगत्वं नियतमलङ्करणानि संश्रयन्ते॥ २०४॥
अयमेव गुणालङ्कारयोर्विशेषो यदुणोपादाने नियमोऽलङ्कारयोगे तु कामचार इति।
गुणाश्च युवत्याः शरीरेषु त्रिविधास्तदर्थिनामादरातिशयहेतवो भवन्ति बाह्या आन्तरा वैशोषिकाश्च। तत्र—