बाह्यश्शब्दगुणाः, ते ह्यन्ववायादिवद् बाह्यत्वेनावभासन्ते।
आन्तरा अर्थगुणाः, ते सौशील्यादिवद्विमर्शेन ज्ञायन्ते।
वैशेषिका दोषगुणाः, ते हि पात्रविशेषाद्युपाधेः दोषा अपि गुणत्वेन विख्यायन्त इति। तत्र
श्लेषः, प्रसादः, समता, माधुर्यं, सौकुमार्यम्, अर्थव्यक्तिः, कान्तिः, उदारता, उदात्तत्वम्, ओजः, और्जित्यं, प्रेयः, सुशब्दता, समाधिः, सौक्ष्म्यं, गाम्भीर्यं, विस्तरः, संक्षेपः, संमितत्वं, भाविकत्वं, गतिः, रीतिः, उक्तिः, प्रौढिरिति। तेषु—
१. सुश्लिष्टपदता श्लेषः, यथा—(माघ. ३.८)
उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम्।
तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः॥ २०६॥
२. प्रसिद्धार्थपदता प्रसादः, यथा—(शाकु. २.६)
गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु।