विस्त्रब्धं क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्लवे विश्रामं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः॥ २०७॥
३. मृदुस्फुटोन्मिश्रवर्णबन्धानामवैषम्यं समता यथा—
यच्चन्द्रकोटिकरकोरकभारभाजि बभ्राम बभ्रुणि जटापटले हरस्य।
तद् वः पुनातु हिमशैलशिलानिकुञ्जझात्कारडम्बरविरावि सुरापगाम्भः॥
४. पृथक्पदता माधुर्यं, यथा—(कुसं. ५.२४)
स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः।
वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः॥
५. अनिष्ठुराक्षरप्रायता सौकुमार्यम, यथा—(काव्याद. १.७०)
मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः।
कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि॥ २१०॥