(ऊर्ध्वाक्षः पिबति जलं यथा यथा विरलाङ्गुलिश्चिरं पथिकः।
प्रपापालिकापि तथा तथा धारां तनुकामपि तनूकरोति॥)
गोलाविसमोआरच्छलेण अप्पा उरम्मि से मुक्को।
अणुअंपाणिद्दोसं तेण वि सा गाढमुअवऊढा॥ २५५॥
(गोदाविषमावतारच्छलेन आत्मा उरसि तस्य मुक्तः।
अनुकम्पानिर्दोषं तेनापि सा गाढमुपगूढा॥)
अन्योन्यचूलिका, अन्योन्यभ्रान्तिः, अन्योन्यैकता चान्योन्यमेव। तत्रात्र—
अन्योन्यचूलिका यथा—(सक. ३.७५)
शशिना च निशा निशया च शशी शशिना निशया च यथा गगनम्।