भवता च सभा सभया च भवान् भवता सभया च विभाति जगत्॥ २५६॥
जम्बूनां कुसुमोदरे नवमधुन्यारब्धपानोत्सवाः कीराः पक्वफलाशया मधुकरीश्चुम्बन्ति मुञ्चन्ति च।
एतेषामपि नीलकिंशुकदलैरेभिः समानत्विषां पुष्पभ्रान्तिभिरापतन्ति सहसा चञ्चूषु भृङ्गाङ्गनाः॥ २५७॥
अन्योन्यैकता यथा—(माघ. १.२२)
प्रफुल्लतापिच्छनिभैरभीषुभिः शुभैश्च सप्तच्छदपांसुपाण्डुभिः।
परस्परेण च्छुरितामलच्छवी तदेकवर्णाविव तौ बभूवतुः॥ २५८॥
गुणद्रव्याणां व्यत्ययविनिमयौ परिवृत्तिः। सा त्रिधा—
व्यत्ययवती, विनिमयवती, उभयवती च। तेषु —