अङ्के प्रवेशके वा प्रकरणमाश्रित्य नाटकं वापि।
न वधः कर्तव्यो वै यस्तत्र तु नायकः ख्यातः॥ २२१॥
अपसरणमेव कार्यं ग्रहणं वा सन्धिरेव वा योज्यः।
कार्यं श्लेषैर्बहुभिर्यथारसं नाट्यतत्त्वज्ञैः॥ २२२॥
प्रकरणनाटकविषये पञ्चाद्या दशपरा भवत्यङ्काः।
अङ्कान्तरसन्धिषु च प्रवेशकास्तेषु तावन्तः॥ २२३॥
न महाजनपरिवारं कर्तव्यं नाटकं प्रकरणं वा।
ये तत्र कार्यपुरुषाश्चत्वारः पञ्च वा ते स्युः॥ २२४॥
व्यायोगेहामृगसमवकारडिमसंज्ञितानि काव्यानि।
दशभिर्द्वादशभिर्वा षोडशभिर्वापि पुरुषैः स्युः॥ २२५॥