सचिवश्रेष्ठिब्राह्मणपुरोहितामात्यसार्थवाहानाम्।
गृहवार्ता यत्र भवेन्न तत्र वेश्याङ्गना कार्या॥ २१६॥
यदि वेशयुवतियुक्तं न कुलस्त्रीसङ्गमर्हति कदाचित्।
अथ कुलवधूप्रयुक्तं न वेशयुवतिर्भवेत्तत्र॥ २१७॥
यदि वा कारणयुक्त्या वेशकुलस्त्रीसमागमोऽपि स्यात्।
अविकृतभाषाचारं तत्र तु पाठ्यं प्रयोक्तव्यम्॥ २१८॥
मध्यमपुरुषैर्नित्यं योज्यो विष्कम्भकोऽत्र तन्त्रज्ञैः।
संस्कृतवचनानुगतः संक्षेपार्थः प्रवेशकवत्॥ २१९॥
अङ्कान्तरालविहितप्रवेशकोऽर्थक्रियामभिसमीक्ष्य।
संक्षेपात् सन्धीनामर्थानां चैव कर्तव्यः॥ २२०॥