यदनार्षमप्रयुक्तं परेण यत् स्यादभूतगुणबन्धम्।
प्रकरणमिति तद्विद्यादौद्भिजबीजार्थसंयुक्तम्॥ २११॥
यन्नाटके मयोक्तं वस्तुशरीरं रसाश्रयोपेतम्।
तत्प्रकरणेऽपि कार्यं केवलमुत्पाद्यवस्त्विह तत्॥ २१२॥
विप्रवणिक्सचिवानां पुरोहितामात्यसार्थवाहानाम्।
चरितं यन्नैकविधं तज्ज्ञेयं प्रकरणं कृतिभिः॥ २१३॥
नोदात्तनृपोपेतं न दिव्यचरितं न राजसम्भोगम्।
बाह्यजनसंप्रयुक्तं तज्ज्ञेयं प्रकरणं लोके॥ २१४॥
दासविटश्रेष्ठियुतं वेशस्त्र्युपचारकारणोपेतम्।
मन्दकुलस्त्रीचरितं कार्यं कार्यं प्रकरणे तु॥ २१५॥