उत्तरोत्तरवाक्यं तु भवेत् प्रशमनं तथा॥ २०१॥
विदूषकः— भो एसा खु सारिआ चउवेदी विअ ब्रह्मणो रिआओ पठिदुं आरद्धा। (भो एषा खलु शारिका चतुर्वेदी इव ब्राह्मणः ऋचः पठितुमारब्धा।)
राजा— मित्राऽन्यचेतसा मया नावधारितं, किमनयोक्तम् ?
विदूषकः— भो एआए मंतिदं— (भो एतया मन्त्रितम्)— दुळहजणेऽणुराओ (दुर्लभजनेऽनुरागो) इत्यादि पठति।
राजा— (सहासं) महाब्राह्मण, भवन्तं मुक्त्वा कोऽन्य एवमृचामभिज्ञः ?
विदुषकः— किं खु दाणि एदं। (किं खल्विदानीमेतत् ?)
राजा— वयस्य, ननु गाथा। इदं कयापि श्लाघ्यमनासादयन्त्या जीवितनिरपेक्षयोक्तम्।