राजा कृतावकुण्ठनश्चेट्या हस्ताद् गृहीत्वा भानुमत्या अर्घ्यपात्रमुपनयति।
भानुमती—{स्पर्शमभिनीय सोत्कम्पमर्घ्यपात्रं धारयति। ससाध्वसाया हस्तात् पुष्पाणि पतन्ति। (राजानमवलोक्य) अहो पमादो परिअणस्स। (अहो प्रमादः परिजनस्य !)} इत्यत आरभ्य—
राजा—(सपरिहासं) निपुणः परिजनस्ते एवंविधे सेवावकाशे इति ॥ १९८॥
दोषप्रच्छादनार्थं तु हास्यं नर्मद्युतिः स्मृता॥ १९९॥
विदूषकः— (ऊर्ध्वं विलोक्य) कहं सच्चं एव्व सारिआ। (दण्डकाष्ठमुद्यम्य) दासीएधीए, किं तुए जाणिदं जहा स सच्चं एव्व वसन्तओ भाअदि। ता चिठ्ठ मुहुत्तअं, जाव इमिणा रत्तकामिणीहिअअभंगुरेण दंडकठ्ठएण पडिपक्के विअ कइत्थफलं इमादो वउळपाअवादो पाडइस्सं इति। (कथं सत्यमेव शारिका ! दास्याःपुत्रि, किं त्वया ज्ञातं यथा स सत्यमेव वसन्तको बिभेति ? तत्तिष्ठ मुहूर्तं यावदेतेन रक्तकामिनीहृदयभङ्गुरेण दण्डकाष्ठेन परिपक्वमिव कपित्थफलमस्माद् वकुलपादपात् पातयिष्यामि इति।)
राजा— (सपरिहासं) देवि ! श्रुतविस्तार एवास्मि भवत्याः स्वप्नवृत्तान्तस्य; तदलमत्यन्तसुकुमारमात्मानं खेदयितुम् इति ॥२००॥