स्मितमधुरमुदारं देवि ! मामालपोच्चै प्रभवति मम पाण्योरञ्जलिः त्वं स्पृशाऽस्मिन्॥ १९३॥
भानुमती— अय्यउत्त ! कस्सिंचि णिअमे अहिप्पाओ। तो अणुमण्णदु मं अय्यउत्तो त्ति। (आर्यपुत्र ! कस्मिंश्चिन्नियमेऽभिप्रायः। तदनुमन्यतां मामार्यपुत्रः इति।)
१६. (२.४ तापनम्) अपायदर्शनं यत्तुं तापनं नाम तद्भवेत्॥ १९४॥
यथा रत्नावल्यां सागरिका—
दुल्लहजणेऽणुराओ लज्जा गुरुई परव्वसो अप्पा।
पिअसहि विसमं प्पेम्म मरणं सरणं णु वरमेकम्॥ १९५॥
(दुर्लभजनेऽनुरागो लज्जा गुर्वी परवश आत्मा।
प्रियसखि ! विषमं प्रेम मरणं शरणं नु वरमेकम्॥)