कृतस्य विनय(स्यानुनय)स्यादौ विधूतं ह्यपरिग्रहः॥ १९१॥
सुसङ्गता— (सागरिकाहृदये हस्तं दत्त्वा), सहि समस्सस समस्सस। जाव इमाए दिग्घिआए णलिणीपत्ताइं मुणालोअइं अ गेण्हिअ आअच्छामि। {सखि, समाश्वसिहि समाश्वसिहि ! यावदस्या दीर्घिकाया नलिनीपत्राणि मृणालिकां च गृहीत्वा आगच्छामि। (उत्थाय परिक्रम्योपसृत्य नलिनीपत्राणि मृणालिकाश्च नाट्येन हृदयेऽस्या ददाति।)}
सागरिका— (पत्राणि विक्षिपन्ती) सहि, अवणेहि णलिणीपत्ताइं मुणालिआ अ। अलं एदेहिं। कीस अआरणे अत्ताणं आआसेसि त्ति। (सखि, अपनय नलिनीपत्राणि मृणालिकाश्च। अलमेतेन। किमकारण आत्मानमायासयसि इति।) ॥ १९२॥
यथा च वेणीसंहारे (द्वितीयेऽ)ङ्के — (वेसं. २.१६)
विकिर धवलदीर्घापाङ्गसंसर्पि चक्षुः परिजनपदवर्तिन्यत्र किं सम्भ्रमेण।