सङ्घातरूपभेदो यः स भेद इति कीर्तितः॥ १८७॥
सागरिका— दिठ्ठं जं दिठ्ठव्वं (दृष्ठं यद् द्रष्टव्यम्) इत्यादि भणित्वा निर्गता। यथा च वेणीसंहारे वासुदेवोपक्रान्तः सन्धिः x x x x (वेसं. १.२३)
यत् सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं यद् विस्मर्तुमपीहितं शमवता शान्तिं कुलस्येच्छता।
तद् द्यूतारणिसम्भृतं नृपवधूकेशाम्बराकर्षणैः क्रोधज्योतिरिदं महत् कुरुवने यौधिष्ठिरं जृम्भते॥ १८८॥
भीमः— जृम्भतामप्रतिहतकोपमार्यस्य ज्योतिरिति। (वेसं. १.२२—२४)
(२. प्रतिमुखसन्धौ द्वादशाङ्गनि)
अथ प्रतिमुखाङ्गानि द्वादश।