(बीजार्थस्य) प्ररोहो य उद्भेदः स तु कीर्तितः॥ १८३॥
यथा रत्नावल्यां नेपथ्ये वैतालिकः—(रत्ना. १.२३)
अस्तापास्तसमस्तभासि नभसः पारं प्रयाते रवा— वास्थानीं समये समं नृपजनस्सायन्तने सम्पतन्।
सम्प्रत्येव सरोरुहद्युतिमुषः पादांस्तवासेवितुं प्रीत्युत्कर्षकृतो दृशामुदयनस्येन्दोरिवोद्वीक्षते॥ १८४॥
सागरिका— (सहर्षं परिवृत्य सस्पृहं पश्यन्ती) कहं अअं सो राआ (उदअणो जस्स अहं तादेण दिण्णा। (कथमयं से राजा उदयनो यस्याहं तातेन दत्ता ?)
यथा च वेणीसंहारे भीमः — रणयज्ञः। तथाहि— (वेसं. १.२४)
चत्वारो वयमृत्विजः स भगवान् कर्मोपदेष्टा हरिः संग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता।
कौरव्याः पशवः प्रियापरिभवक्लेशोपशान्तिः फलं राजन्योपनिमन्त्रणाय रसति स्फीतं यशो/इतो दुन्दुभिः॥ १८५॥