प्रकृतार्थसमारम्भं करणं परिचक्षते॥ १८६॥
सागरिका—कहं अअं सो राजा उदअणो जस्स अअं तादेण दिण्णा। ता परप्पेसणदूसिदं वि मे सरीरं एदस्स दंसणेण अज्ज बहुमदं संवुत्तम्।) (कथमयं स राजा उदयनो यस्याहं तातेन दत्ता ? तत् परप्रेषणदूषितमपि मे शरीरमेतस्य दर्शनेनाद्य बहुमतं संवृत्तम्।)
सहदेवः—आर्य, गच्छामो वयमिदानीं गुरुजनेनानुज्ञाता विक्रमानुरूपमा— चरितुम्।
भीमः—वत्स, एते वयमुद्यता एव (आर्यस्य) आज्ञामनुष्ठातुम्। (उत्तिष्ठति।)।
(उत्थाय) देवि, गच्छामो वयमिदानीं कुरुकुलक्षयाय इति।