समीहा रतिभोगार्था विलासः परिकीर्तितः॥ (नाशा. १९.७१)
यथा रत्नावल्यां चित्रितेनापि नायकेन सह सम्भोगसुखमवगच्छन्त्या सागरिकया।
यथा च वेणीसंहारे राजा— विनयन्धर, प्रातरेव वासभवनान्मामनामन्त्र्यैव भानुमती निष्क्रान्तेति व्याक्षिप्तं मे मनः।
दृष्टनष्टानुसरणं परिसर्पः॥ १८९॥
यथा रत्नावल्यां मदनपरवशां सागरिकां राजानमालिखन्तीं दृष्ट्वा सुसङ्गतया— भ्यधायि — किं पुण एसा गुरुआणुराओक्खित्तहिअआ आलिहंती मं पि ण पेक्खदि। होदु। तो जाव इमाए दिठ्ठिवहं से परिहरिअ णिरूवइस्सं किं एसा आलिहदि त्ति। {किं पुनरेषा गुर्वनुरागोत्क्षिप्तहृदया आलिखन्ती माम् अपि न प्रेक्षते ? भवतु। तद्यावदस्या दृष्टिपथं परिहृत्य निरूपयिष्यामि किमेषाऽऽलिखति इति।}
यथा च वेणीसंहारे कञ्चुकी— साधु पतिव्रते साधु ! स्त्रीस्वभावेऽपि वर्तमाना वरं भवती, न पुनर्महाराजः, योऽयमुद्यतेषु बलवत्सु, अथवा किं बलवत्सु वासुदेवसहायकेषु रिपुषु अद्याप्यन्तःपुरक्रीडासुखमभिलषति। इदं चापरमयथायथं स्वामिनश्चेष्टितम्। (वेसं. २.२)
आशस्त्रग्रहणादकुण्ठपरशोस्तस्यापि जेता मुने— स्तापायास्य न पाण्डुसूनुभिरयं भीष्मः शरैः शायितः।
प्रौढानेकधनुर्धरारिविजयश्रान्तस्य चैकाकिनो बालस्यायमरातिलूनधनुषः प्रीतोऽभिमन्योर्वधात्॥